________________
२१७
वक्षस्कारः - ३
सिंधुमामधे उत्तिणे अहसासणबले, तहेव भरहस्स रन्नो निवेएइ निवेइत्ता य अप्पिणित्ता य पाहुडाई सक्कारिअसम्माणिए सहरिसे विसज्जिए सगं पडमंडवमइगए ।
तणं सुसेणे सेनावई हाए कयबलिकम्मे कयकोउ अमंगलपायच्छित्ते जिमिअभुत्तुत्तरागए समाणे जाव सरसगोसीसचंदणुक्खित्तगायसरीरे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थहिं बत्तीस बद्धेहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चित्रमाणे २ उवगिज्जमाणे २ उवलालि (लभि) जमाणे २ महयाहयनट्टगी अवाइअतंतीतलतालवुड अघणमुइंगपडुप्पवाइअरवेणं इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे भुंजमाणे विहरइ ।
वृ. 'तएण 'मित्यादि, निगदसिद्धं, नवरं सुषेणनामानं सेनापतिं - सेनानीरत्नमिति, किमवादीदित्याह-‘गच्छाहि ण’मित्यादि, गच्छ भो देवानुप्रिय ! सिन्ध्वा महानद्यः पाश्चात्यं-पश्चिमदिग्वर्त्तिनं निष्कुटं - कोणवर्त्तिभरत क्षेत्रखण्डरूपं, एतेन पूर्वदिग्वर्त्तिभरत क्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैर्विभाजकैर्विभक्तमित्याह - पूर्वस्यां दक्षिणस्यां च सिन्धुर्नदी पश्चिमायां सागरः - पश्चिमसमुद्रः उत्तरस्यां गिरिर्वैताढ्यः एतैः कृता मर्यादा - विभागरूपा तया सहितं, एभि कृतविभागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानिच - समभूभागवर्त्तीनि विषमाणि च - दुर्गभूमिकानि निष्कुटानि च - अवान्तरक्षेत्खण्डरूपाणि ततो द्वन्द्वस्तानि च - 'ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त्तनेनास्मद्वशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितं, एवमेवाखण्डषटखंडक्षितिपतित्वप्राप्तेः, ‘ओअवेत्ता' साधयित्वा अग्याणि - सद्यस्कानि वराणि - प्रधानानि रत्नानि - स्वस्वजातावुत्कृष्टवस्तूनि प्रतीच्छ - गृहाण, प्रतीष्य च ममैतामाज्ञप्तिकां प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे तथाऽऽह'तते ण' मित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिंस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषणः ? - सैन्यस्य प्रक्रमात् भरतचक्रवर्त्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी' ति पदे न पौनरुक्त्यं, महात्मा - उदात्तस्वभावः ओजस्वी- आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्च सत्वादिभिर्युक्तः, म्लेच्छभाषासु - पारसी आरबीप्रमुखासु विशारदःपण्डितः, ततन्म्लेच्छदेसभाषाज्ञो हि तत्तद्देशीयम्लेच्छान् सामदादिवाक्यैबोद्धुं समर्थो भवति, अत एव चित्रं- विविधं चारु-अग्राम्यतादिगुणोपेतं भाषत इत्येवंसीलः, भरतक्षेत्रे निष्कुटानां निम्नानां च - गम्भीरस्थानानां दुर्गमानां च दुःखेन गन्तुं शक्यनानां दुष्प्रवेशानां दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैनां योग्यतां विभाव्यैताशे शासने नियुक्तः, अर्थशास्त्र- नीतिशास्त्रदि तत्र कुशलः रत्नं सेनापति - सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हष्टतुष्टेत्यादि प्राग्वत् ।
ततः स किं करोतीत्याह- 'पडिसुणेत्ता' इत्यादि, सर्वं चैतत् पाठसिद्धं, नवरं सुषेणविशेषणं सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः धर्म्म- लोहकत्तलादिरूपं सञ्जातमस्येति वर्म्मितं ईशं कवचं - तनुत्राणं यस्य स तथा, उत्पीडिता - गाढं गुणारोपणाद् ढीकृता शरासनपट्टिका - धनुर्दण्डो येन स तथा, पिनद्धं ग्रैवेयं - ग्रीवात्राणं ग्रीवाभरणं वा येन स तथा बद्धो-ग्रन्थिदानेन आविद्धः परिहितो मूर्द्धावेष्यनेन विमलवरचिह्नपट्टो - वीरातिवीरतासूचकवस्त्रविशेषो येन स तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org