SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३ / ७४ सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमोक्षणाद्यत्र वक्तव्यं, एवं च कर्मचक्रिणां वैताढ्यसुरादीनां साधनेऽपि जिनचक्रिणां तु सर्वत्र दिग्विजययात्रायां शरप्रमोक्षणादिकमन्तरेणैव प्रवत्ति यतस्तत्र तेषां तथैव साध्यसिद्धिरिति, स च कः सङ्कल्प इत्याह 'उप्पन्ने’त्ति उत्पन्नः खलुः–निश्चये जम्बूद्वीपनाम्नि द्वीपे भरतनामनि वर्षे - क्षेत्रे भरतो नाम राजा चतुरन्तचक्रवर्त्ती तज्ञ्जीतमेतत् - आचार एषः अतीतवर्त्तमानानागतानां सिन्धुनाम्नीनां देवीनां भरतानां राज्ञां, अत्र बहुवचनं कालत्रयवर्त्तिनां चक्रयर्द्धचक्रिणां परिग्रहार्थं, उपस्थानिकंप्राभृतं कर्तु वर्त्तते इति, तद् गच्छामि णमिति प्राग्वत्, अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति, चिन्तितं हि कार्यं कृतमेव फलदं भवतीत्याह - 'इतिकट्टु' इत्यादि, इतिकृत्वा - चिन्तयित्वा कुम्भानामष्टोत्तरं सहस्र रत्नचित्रं नानामणिकनकरत्नानां भक्ति - विविधरचना तया चित्रे च द्वे कनकभद्रासने ऋषभचरित्रे तु रत्नभद्रासने उक्ते कटकानि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च तयोत्कृष्टयेत्यादि यावदेवमवादीदिति, अत्र यावत्पदसंग्रहो व्यक्तः, किमवादीदित्याह'अभिजिए ण' मितयादि, अभिजितं देवानुप्रियैः -श्रीमद्मि केवलकल्पं परिपूर्णं भरतं वर्षं तेनाहं देवानुप्रियाणां विषयवासिनी - देशवास्तव्या अहं देवानुप्रियानामाज्ञप्तिकिङ्करी- आज्ञासेविका तत् प्रतीच्छन्तु - गृह्णन्तु देवानुप्रियाः ! ममेदमेतद्रूपं प्रीतिदानमिति, अत्र णं सर्वत्र प्राग्वत्, इतिकृत्वा कुम्भाष्टाधिकसहस्रं रत्नचित्रं नानामणिकनकरलभक्तिचित्रे वा द्वेकनकभद्रासने कटकानि च यावत् स एव मागधसुरगमोऽत्रानुसर्त्तव्यः तावद्यावत्प्रतिविसर्जयति । तत उत्तरविधिमाह-'तए ण मित्यादि, सर्वं प्राग्वत्, नवरं तावद् वक्तव्यं यावत्ताः श्रेणिप्रश्रेणयोऽष्टाहिकाया महामहिमायास्तामाज्ञप्तिकां प्रत्यर्पयन्ति यथाऽष्टाहिकोत्सवः कृत इति । अथ वैताढ्यसुरसाधनमाह मू. (७५) तए णं से दिव्वे चक्करयणे सिंधूए देवीए अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरच्छिमं दिसिं वेअद्धपव्वयाभिमुहे पयाए आवी होत्था । तए णं से भरहे राया जाव जेणेव वेअद्धपव्वए जेणेव वेअद्धस्स पव्वयस्स दाहिणिल्ले नितंबे तेणेव उवागच्छइ २ त्ता वेअद्धस्स पव्वयस्स दाहिणिल्ले नितंबे दुवालसजोअणायाणं नवजो अणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ २ ता जाव वेअद्धगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ २ त्ता पोसहसालाए जाव अट्टमभत्तिए वे अद्धगिरिकुमारं देवं मनसि करेमाणे २ चिट्ठइ । तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि वेअद्धगिरिकुमारस्स देवस्स आसणं चलइ, एवं सिंधुगमो नेअव्वो, पाइदाणं अभिसेक्कं रयणालंकारं कडगाणि अ तुडिआणि अ वत्थाणि अ आभरणाणि अ गेण्हइ २ त्ता ताए उक्किट्ठाए जाव अट्ठाहिअं जाव पच्चप्पिणंति । तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए जाव पञ्चत्थिमं दिसिं तिमिसगुहामिमुहे पयाए आवि होत्था, तए णं से भरहे रायां तं दिव्वं चक्करयणं जाव पञ्चत्थिमं दिसिं तिमिसगुहाभिमुहं पयातं पासइ २ त्ता हट्ठतुट्ठचित्तजावतिमिसगुहाए अदूरसामंते दुवालसजोअणायामं नवजोअणविच्छिन्नं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ २ ता पोसहसालाए पोसहिए बंभयारी जाव कयमालगं देवं मणसि करेमाणे २ चिट्ठइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy