SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७३ 'सेसं तहेव'त्ति वचनात् ‘हयगयरहपवरजोहकलिआए सद्धिं संपरिवुडे महया भडचगरपहगरवंदपरिखित्तेचक्करयणदेसिअमग्गोअणेगरपवरसहस्समाणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे २' इत्यन्तं सूत्रं श्यं, कियडूरं लवणसमुद्रमवगाहते इत्याह यावत्तस्य रथवरस्य कूर्परावानॊ भवतः, अत्र यावच्छब्दो न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाणसूचनार्थ, "जाव पीइदाणंति, अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रं तावद्वक्तव्यंयावत्रीतिदान, सेतस्यतीर्थाधिपसुरस्य प्रीतिदानशब्देनोपचारात्प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिल्ले अंतवाले'इति सूत्रस्याग्रतो न्यासान्यथानुपपत्या तस्य ग्रहणं ज्ञेयं, न तु दानं, तस्य 'जाव अट्ठाहिअंमहामहिमं करेंति'त्ति सूत्रस्थयावच्छब्देन गृहीतत्वात्, तेनायम:- प्रीतिदाननिमित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति, तत्रायं पिण्डार्थ-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशरमोक्षकोपोत्पादकोपापनोदनिजर्द्धिसारसंप्रेक्ष-णप्रीतिदानसूत्राणि मागधतीर्थसूत्राधिकारवद्ज्ञेयानीति, नवरमयंविशेषः प्रीतिदानेचूडामणिंच दिव्यं मनोहरंसर्वविषापहारी शिरोभूषणविशेषं उरस्थः-वक्षोभूषणविशेष ग्रैवेयकं-ग्रीवाभरणं श्रोणिसूत्रकं-कटिमेखलां कटकानि-च त्रुटिकानि च, कियडूरं वक्तव्यमित्याह-यावद्दाक्षिणात्यो ऽहमन्तपाल इति, प्रीतिवाक्यप्राभृतोपढौकनभरतकृततस्वीकरणदेवसन्माननविसर्जनरथपरावृत्तिस्कन्धावारप्रत्यागमनमज्जनगृहगमनस्नानभोज नरणश्रेणिप्रश्रेणि -शब्दनादिप्रतिपादकसूत्रंवक्तव्यम्, किमन्तमित्याह-अष्टादश श्रेणिप्रश्रेणयोऽष्टाहिकांमहामिहमां प्रकुर्वन्ति, एतामाज्ञप्तिकां प्रत्यर्पयन्तीति। अथ प्रभासतीर्थाधिपसाधनायोपक्रमते-'तए ण'मित्यादि, सर्वं प्राग्वत्, नवरं उत्तरपश्चिमां-वायवी दिशं शुद्धदक्षिणवर्त्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलंगमनेन प्रभासतीर्थप्राप्तिदूरण स्यादिति, प्रभासनामतीर्थं यत्र सिन्धुनदी समुद्रं प्रविशति, अथ ताईक्चक्रर्तनं दृष्ट्वा यन्न पश्चकेतदाह-'तएण'मित्यादि, सर्वंपूर्ववत्, परंप्रीतिदाने विशेषः, तमेवच सूत्रे दर्शयति'नवरि'त्ति नवरं मालां-रत्नमालां मौलिं-मुकुटं मुक्ता-जालं-दिव्यमौक्तिकराशिं हेमजालंकनकराशिमिति । ‘सेसंतहेव'त्तिशेष-उक्तातिरिक्तंप्रीतिदानोपढौकनस्वीकरण-सुरसन्मानविसर्जनादि तथैव-मागधसुराधिकार इव वक्तव्यं, आवश्यकचूर्णौ तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति । अथ सिन्धुदेवीसाधनाधिकारमाह. मू. (७४)तएणंसे दिव्वेचक्करयणे पभासतित्थकुमारस्सदेवस्स अट्ठाहिआएमहामहिमाए निव्वत्ताए समाणीए आउहघसालाओ पडिनिक्खमइ २ ता जाव पूरेते चेव अंबरतलं सिंधूए महानईए दाहिणिल्लेणं कूलेणं पुरच्छिमं दिसिं सिंधुदेवीभवणाभिमुहे पयाते आवि होत्था। तए णं से भरहे राया तं दिव्वं चक्करयणं सिंधूए महानईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसिं सिंधुदेवीभवणामिमुहं पयातं पासइरत्ता हट्टतुट्ठचित्त तहेव जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइरत्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवालसजोअनामं नवजोयणविच्छिन्नं वरणगरसारिच्छंविजयखंधावारणिवेसंकरेइजाव सिंधुए देवीएभवणस्स अदूरसामंते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy