________________
वक्षस्कारः - ३
भूषितमङ्गं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आर्षत्वात् ।
अथ पुना रथं विशिनष्टि–सच्छत्रं सध्वजं सघण्टं सपताकमिति प्राग्वत्, सुकृतं - सुष्ठु निर्मित सन्धिकर्म्म–सन्धियोजनं यत्र स तं सुसमाहितः - सम्यगयथोचितस्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः - चीत्काररूपो ध्वनिर्यस्य स तं, पदव्यत्ययः प्राकृतत्वात्, वरे कूप्पर पिअनके इति प्रसिद्धे यस्य स तं, सुचक्रंवरनेमीमण्डलं- प्रधानचक्रधारावृतं वरे - शोभमाने धूस्तुंडे - धूर्वीकूबरे यस्य स तं वरवर्जेर्बद्धे तुंबे यस्य स तं वरकाञ्चनभूषितं वराचार्य - प्रधानशिल्पी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं रथावयवेषु प्रधानताख्यापनार्थं । 'वरपुरिसे' इत्यादि तु पूर्वं योजितं, 'दुरूढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानं सुखारूढताज्ञापनार्थं, अथवा दुरूढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं पुनरुक्तिर्न दोषायेति उक्तमेवार्थं नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह - 'पवररयणपरिमंडिअ 'मित्यादि, प्रवरत्नपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्य-मनभिभवनीयमित्यर्थः, सौदामिनी - विद्युत्, तप्तं यत्कनकं तच्चानलोत्तीर्णं रक्तवर्णं भवतीति तप्तशब्देन विशेषितं पङ्कजं - कमलं तच्च सामान्यतो रक्तं वर्ण्यते 'जासुअण' त्ति जपाकुसुमं ज्वलित- ज्वलनो - दीप्ताग्नि अत्र पदविपर्यासः प्राकृतशैलीभवः शुकस्य तुण्डं - मुखं एतेषामिव रागो-रक्तता यस्य स तं ।
गुञ्जार्द्ध-रक्तिकारागभागः बन्धुजीवकं - द्विप्रहरविकाशिपुष्पं रक्तः - संमर्द्दितो हिंगुलकनिकरः सिन्दूरं-प्रतीतं रुचिरं कुङ्कुमं - जात्यघुसृणं पारापतचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आर्षत्वात् दशनावरणं - अधरोष्ठं तच्च सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदोमनोहरोऽतिरक्तः–अधिकारुणोऽशोकतरु ईद्दशं च कनकं किंशुकंपलाशपुष्पं तथा गजतालु सुरेन्द्रगोपको - वर्षासु रक्तवर्ण क्षुद्रजन्तुविशेष एभिसमा - सध्शा प्रभा - छविर्यस्य तथा एवंविधः प्रकाशः - तजः प्रसरो यस्य स तं, बिम्बफलं - गोल्हकं 'सिलप्पवालं'ति अत्र अश्लीलशब्द इव श्रियं लातीति ऋफिडादित्वाल्लत्वे श्लीलं एवंविधं यत्प्रवालं श्लीलप्रवालं - परिकर्म्मितविद्रुमः शिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः – उद्गच्छत्सूर्यस्तेषां सद्दशं सर्वर्तुकानि - षडृतुभवानि सुरभीणि कुसुमानि - अग्रथितपुष्पाणि माल्यदामानि च - ग्रथितपुष्पाणि यत्र स तं उच्छ्रितः ऊर्ध्वकृतः श्वेतध्वजो यत्र स तं, महामेघस्य यद्रसितं - गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं, शत्रुहृदयकम्पनं, प्रभातेच - अष्टमतपः पारणकदिनमुखे चतुर्घण्टमश्वरथं पौषधिकः - आसन्नपारित - पौषधव्रतो नरपतिरारूढ इति सम्बन्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं, अत्रारूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः कीदृशो नरपतिरित्याह-लोकविश्रुतयशाः, अहतं- कचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारं वा रथमित्यर्थः । रथारोहानन्तरं भरतः किं चक्रे इत्याह
,
२११
'तए ण'मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, कियत्पर्यन्तमित्याह - 'जाव दाहिणाभिमुहे' इत्यादि, शेषं सूत्रं मागधतीर्थगमानुसारेण ज्ञेयं, अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org