________________
२०४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ६८
सम्पूर्णालापको ग्राह्यः स चायं - 'हट्ठतुट्ठचित्तमाणंदिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, 'खिप्पामेव' त्ति प्राग्व्याख्यातार्थं, अत्र लाघवार्थमतिदेशवाक्येनाह - तेनैव क्रमेण - पूर्वोक्तस्नानाधिकार- सूत्रपरिपाट्या तावद् वाच्यं यावद् 'धवलमहामेहनिग्गए' इत्यादि निगमनसूत्रं, तदनु यावच्छेतव- चामरैरुद्धूयमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थं प्राप्तो यथा च तत्र स्कन्धावारनिवेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदामतित्थे तेणेव उवागच्छइ' इत्यनेनान्वययोजना कार्या, सा चैवम् - स भरतो यत्रैव वरदामतीर्थं तत्रैवोपागच्छतीति, द्वितीयवाक्ये च विजयस्कन्धा- वारनिवेशं करेइ इत्यनेनेति,
किंलक्षण इत्याह- 'माइय'त्ति हस्तपाशितं वरफलकं- प्रधानखेटकं यैस्ते तथा प्रवरः परिकरः - प्रगाढगात्रि - काबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं खेटकं च वंशशलाकादिमयमिति न पौनरुक्त्यं, वरवर्म्मकवचमाढ्यः - सन्नाहविशेषा येषा ते तथा, एषां च विशेषस्तत्कलाकुशलेभ्यो वेदितव्यः, यथा वर्म्मलोहकुतूहलिकामयं इत्यादि तेषां सहस्र-वृन्दवृन्दैः कलितो यः स तथा राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात्, उत्कटवराणिउन्नतप्रवराणि मुकुटानि प्रतीतानि किरीटानि - तान्येव शिखरत्रयोपेतानि पताका- लघुपटरूपा ध्वजा - बृहत्पटरूपा वैजयन्त्यः - पार्श्वतो लघुपताकिकाद्वययुक्ताः पताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकारं - छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदाग्रे आर्षत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलितशब्दो योजनीयोऽन्यथा ततस्थचकारस्य नैरर्ध्यक्यापत्तेः, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणबलादेव तत्रापि योजनीय इति, प्रस्तुतविशेषणस्यायं भावार्थः
चलतश्चक्रिणो मुकुटादिका ततसैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि आतपक्लेशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्धयते, सैन्यकृतो जयः स्वामिन्येवेति व्यवहारदर्शनात्, पुनर्भरतमेव विशिनष्टि - असयः - खङ्गविशेषाः क्षिप्यन्ते सीसकगुटिका आभिरिति क्षेपिण्यो - हथनालिरिति लोकप्रसिद्धा खडगाः सामान्यतः चापाः - कोदण्डाः नाराचाः - सर्वलोहबाणाः कणका - बाणविशेषाः कल्पन्यः - कृपाण्यः शूलानि - प्रतीतानि लकुटाः - प्रतीताः भिन्दिपाला - हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः धनूंषिवंशमयबाणासनानि किरातजनग्राह्याणि तूणाः - तूणीराः शराः - सामान्यतो बाणाः इत्यादिभि प्रहरणैः, अत्र चकारेण पूर्वविशेषणस्थः समस्तोऽसमस्तो वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, दिग्विजयोद्यतानां राज्ञां हि शस्त्राणि सेनासहवर्त्तीनि भवन्तीति ज्ञापितं, कथमुक्तप्रहरणैः कलित 'काले 'त्यादि, अत्र रुधिरशब्दो रक्तार्थ तेन कालनीलरक्तपीतशुक्लानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदादनेकरूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः ? - राज्ञां हि शस्त्रध्यक्षास्तत्तज्जातीत्तदेशीयशस्त्राणां निर्विलम्बं परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कर्वन्तीत्यर्थः, अथ तूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि - आस्फोटितं - करास्फोटरूपं सिंह - नादः - सिंहस्येव शब्दकरणं 'छेलिअ' त्ति सेटितं हर्षोत्कर्षेण सीत्कारकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org