________________
वक्षस्कारः-३
२०१ अयमर्थ-योमयासह युयुत्सुः समुमूर्षुरेवेति, दुरन्तानि-दुष्टावसानानि प्रान्नि-तुच्छानि लक्षणानि यस्यसतथा, हीनायांपुण्यचतुर्दश्यांजातोहीनपुण्यचातुर्दशः, तत्रचतुर्दशी किल तिथिजन्माश्रिता पुण्यापवित्रा शुभाइतियावत् भवति, साचपूर्णाऽत्यन्तभाग्यवतोजन्मनिभवति अत आक्रोशता इत्थमुक्तं, क्वचिद् 'भिन्नपुण्णचाउद्दसे'त्ति, तत्र भिन्नापरतिथिसङ्गमेन भेदं प्राप्ता पुण्यचतुर्दशी तस्यां जात इति, ह्रिया-लज्जया श्रिया-शोभया च परिवर्जितः यो णमिति पूर्ववत् मम अस्याःप्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गुरत्वादिरूपान्तरभाक् रूपं-स्वरूपं यस्याः सातथातस्यादिव्यायाः-स्वर्गसम्भवायाःप्रधानाया वा देवानामृद्धि-श्रीभवनरत्नादिसम्पत् तस्याः।एवंसर्वत्र, नवरंधुति-दीप्ति शरीराभरणादिसम्पत्तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानुभावेन-भाग्यमहिम्नाऽथवा दिव्येन-देवसम्बन्धिवाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिम्नासह 'पितापुत्रेण सहागत' इत्यादिवत्, लब्ध्याजन्मान्तरार्जितायाःप्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागतायाः-भोग्यतांगतायाः उपरि आत्मना उत्सुको मनसोत्कण्ठुलः परसम्पत्यभिलाषी पदव्यत्ययादुत्सुकात्मा वाभवने निसृजति, इतिकृत्वा सिंहासनादभ्यत्तिष्ठतीति ।
उत्थानानन्तरं यत्कर्त्तव्यं तदाह-'जेणेव से ना इत्यादि, यत्रैव स नामरूपोऽहतःअखण्डितः अङकः-चिन्हं यत्र स तथा नामाङ्क इत्यर्थः, एवंविधः शरस्तत्रैवोपागच्छति, तं नामाहताझंशरंगृह्णातिनामकंअनुप्रवाचयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयंवक्ष्यमाण एतद्रूपो-वक्ष्यमाणस्वरूपः आत्मन्यधि अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्चद्विधा-ध्यानात्मकः चिन्तात्मकश्च, तत्रआधः स्थिराध्यवसायलक्षणस्तथाविधपंढ-संहनना-दिगुणोपेतानांद्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति,तयोर्मध्येऽयं चिन्तितःचिन्तारूपश्चेतसोऽनवस्थितत्वात्, स चानभिलाषात्मकोऽपि स्यादित्यत आह-प्रार्थितःप्रार्थनाविषयः।
अयं मम मनोरथः फलेग्रहिqयादित्यभिलाषात्मक इत्यर्थः, मनोगतो-मनस्येव यो गतो नबहिर्वचनेनप्रकाशितइति, सङ्कल्पः समुदपद्यत, तमेवाह-उत्पन्नः खलुः-निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजाचातुरन्तचक्रवर्ती तत्-तस्माजीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणा'मितिमागधतीर्थस्याधिपति कुमारोमागधतीर्थकुमाःमध्यपदलोपेन समासः, कुमारपदवाच्यत्वंचास्य नागकुमारजातीयत्वात्, तनामकानांदेवानांराज्ञां-नरदेवानांउपस्थानिकं-प्राभृतं . कर्तुं तद् गच्छामिणमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्यमाणं निजर्द्धिसारं संप्रेक्षते-पालोचयति, ततः किं करोतीत्याह____ . संपेहेत्ता'इत्यादि,सम्प्रेक्ष्य च हारादीनि प्रतीतानिचकारः सर्वत्र समुच्चये शरंच भरतस्य प्रत्यर्पणाय नामाहतं नामाहताङ्कमिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहतं-लक्षणयालिखितंयत्रसतथातं मागधतीर्थोदकंचराज्याभिषेकोपयोगिएतानिगृहणातीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह-'गिण्हित्ताताएउक्किट्ठाए'इत्यादि, गृहीत्वा च तया दिव्यया देवगत्यागत्यालापकव्याख्याप्राग्वत्नवरं सिंहया-सिंहगतिसमानया अतिमहताबलेनारब्धत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org