________________
१९८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ६२
तत्सम्बन्धिनो ये केसराः - सिंहस्कन्धकेशाः चामरवाला:- चमरपुच्छकेशाः, एषां चोक्तगिरिद्वयसत्कानामतिसुन्दरत्वेनोपादानं, अर्द्धचन्द्राश्च - खण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि एताद्दशानि चिहनानि यत्र तत्तथा, यस्य धनुषि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयख्यापनार्थं, चमरवालबन्धनं अर्द्धचन्द्रप्रतिबिम्बरूपं च शोभातिशयार्थमिति, कालादिवर्णायाः 'हारुणि 'त्ति स्नायवः शरीरान्तर्वप्रस्ताभि सम्पिनद्धा - बद्धा जीवा - प्रत्यञ्ज यस्य तत्तथा, जीवितान्तकरणं शत्रूणामिति गम्यं, ईशधनुर्मुक्तो बाणोऽवश्यं रिपुजयीत्यर्थः, चलजीवमिति विशेषणं त्वेतद्वर्णकवृत्तौ षष्ठाङ्गे श्री अभयदेवसूरिभिर्न व्याख्यातमिति न व्याख्यायते, यदि च भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु ६श्यमानत्वाद् व्याख्यातं विलोक्यते तदा टण्कारकरणक्षणेचला - चञ्जला जीवा यस्य तत्तथा पुनः किंकृत्वेत्याह
'उसुं च 'त्ति इषु च गृहीत्वा, तमेव विशिनष्टि - वरवज्रमय्यौ कोटयौ - उभयप्रान्तौ यस्य स तथा बहुव्रीहिलक्षणः कप्रत्ययः, वरवज्रवत् सारं - अभेद्यत्वेनाभङ्गुरं तुण्डं - मुखविभागो भल्लीरूपो यस्य स तथा तं, काञ्चबद्धा मणयः - चन्द्रकान्ताद्या कनकबद्धानि रत्नानि - कर्केतनादीनि प्रदेशविशेषे यस्य स धौत इतधौतो निर्मलत्वात् इष्टो - धानुष्कानामभिमतः सुकृतो - निपुणशिल्पिना निर्मितः पुंखः - पृष्ठभागो यस्य स तथा तं, अनेकैर्मणिरत्नैर्विविधं - नानाप्रकारं सुविरचितं नामचिन्हं निजनामवर्णपङ्किरूपं यत्र स तथा तं पुनरपि किं कृत्वेत्याह
वैशाखं - वैशाखनामकं स्थानं - पादन्यासविशेषरूपं स्थित्वा - कृत्वा, वैशाखस्थानंक चैवं119 11 'पादौ सविस्तरौ कार्यौ, समहस्तप्रमाणतः । वैशाखस्थानके वत्स !, कूटलक्ष्यस्य वेधने ॥'
इति भूयोऽपि किं कृत्वेत्याह- इषुमुदारं- उद्भटं आयतं - प्रयत्नवद् यथा भवत्येवं कर्णं यावदायतं-आकृष्टं कृत्वा इमानि वचनान्यभाणीदिति, अन्वययोजनं तु पूर्वमेव कृतं, कानि तानि वचनानीत्याह
मू. (६३)
हंदि सुणंत भवंतो बाहिरओ खलु सरस्स जे देवा । नागासुरा सुवण्णा तेसिं खु नमो पणिवयामि ।।
वृ. हंदि इति सत्ये, तेन यथाशयं वदामीत्यर्थः, अथवा हंदीति सम्बोधने, श्रृण्वन्तु भवन्तुः, शरस्य - मत्प्रयुक्तस्य बहिस्तात् त्वग्भागे ये देवा अधिष्ठायकास्त्वग्दाढर्याकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह - नागा असुराः सुपर्णा - गरुडकुमाराः तेभ्यः खुः - निश्चये नमोऽस्तु विभक्तिपरिनामात् तान् प्रणिपतामि- नमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पूनर्वचनं भक्त्यतिशयख्यापनार्तं, अनेन शरप्रयोगाय साहाय्यकर्तॄणां बहिर्भागवासिनां देवानां सम्बोधनमुक्तं, अथाभ्यन्तरभागवर्त्तिदेवानां सम्बोधनायाह
मू. (६४)
हंदि सुणंतु भवंतो अब्भितरओ सरस्स जे देवा ।
नागासुरा सुवण्णा सव्वे मे ते विसयवासी ॥
वृ. हन्दीति प्राग्वत्, नवरं अभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तद्दाढर्यादिकारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यर्थः सर्वे ते देवा मम विषयवासिनो - मम देशवासिन इत्यर्थः, सूत्रे चैकवचनं प्राकृतत्वात्, इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org