________________
१९७
वक्षस्कारः - ३
परिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिंधं दद्दरमलयगिरिसिहरकेसरचामरवालद्दचंदचिंधं कालहरिअरत्तपी अक्किल्लबहण्हारुणिसंपिणद्धजीवं जीविअंतकरणं चलजीवं धनं गहिऊण से नरवई उसं च वरवइरकोडिअं वइरसारतोंडं कंचणमणिकणगरयणधोइट्ठसुकयपुंखं अनेगमनिरयनविविहसुविरइयनामचिंधं वइसाहं ठाईऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणिअ से नरवई
वृ. 'तएण 'मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् हयगजरथप्रवरयोधकलितया, अर्थात् सेनया इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्तिविस्तारवन्तः 'पहगरत्ति' समूहास्तेषां यदवृन्दं समूहो विस्तारवतसमूह इत्यर्थः तेन परिक्षिप्तःपरिकरितः चक्ररत्नादेशितमार्ग, अनेकेषां राजवराणां - आबद्धमुकुटराज्ञां सहस्रारनुयातः - अनुगतो मार्ग - पृष्ठं यस्य स तथा, महता - तारतरेण उत्कृष्टि - आनन्दध्वनि सिंहनादः प्रतीतः बोलो - वर्णव्यक्तिरहितो ध्वनि कलकलश्च - तदितरो ध्वनिस्तल्लक्षणो यो रवस्तेन प्रक्षुभितो - महावायुवशादुत्कल्लोलो यो महासमुद्रस्तस्य रवं 'भूङ प्राप्ता' विति सौत्रो धातुरिति वचनाद् भूत-प्राप्तमिव दिग्मण्डलमिति गम्यते कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः । पूर्वदिगभिमुखो मागधनाम्ना तीर्थेन-घट्टेन लवणसमुद्रमवगाहते - प्रविशति, कियदवगाहते इत्याह- यावत् 'से' तस्य रथवरस्य कूर्पराविव कूर्परी कूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धी रथावयवी आर्द्रा स्यातां, अत एव सूत्रवलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह" रथाङ्गनाभिद्वयसं, गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथाग्रस्थसारथिस्खलितैर्हयैः ॥” इति ।
119 11
'तए ण' मित्यादि, ततः स भरतो राजा तुरगान् निगृह्णाति, अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धौ सत्यामपि वरदामसूत्रे हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, निगृह्य च रथं स्थापयति, स्थापयित्वा च धनुः परमृशति - स्पृशति, अथ याध्शं पराममर्श ताशं धनुर्वर्णयन्नाह - 'तणणमित्यादि, ततो- धनुः परामर्शानन्तरंस नरपतिरिमानि वक्ष्यमाणानि वचनानि ‘भाणीअ’त्ति अभाणीदिति सम्बन्धः, किं कृत्वेत्याह- धनुर्गृहीत्वा किंलक्षणमित्याह-तत्-प्रसिद्धं अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रस्तेन यत्तु उत्तरसूत्रे पंचमिचंदोवममिति तदारोपितगुणस्यातिवक्रताज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशं - सद्दशं यत्तत्तथा, धमः - दर्पितो द्वयोः समानार्थयोरतिशयवाचकत्वेन सञ्जातदर्पातिशयो यो वरमहिषः - प्रधानसेरिभो विशेषण - परनिपातः प्राकृतत्वात् तस्य ढानि - निबिड - पुद्गलनिष्पन्नानि जत एव घनानि - निच्छिद्राणि यानि श्रृङ्गाग्राणि तै रचितं सारं च यत्तत्तथा, उरगवरो - भुजगवरः प्रवरगवलं वरमहिषशृङ्गं प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरो नीली- गुलिका एतानीव स्निग्धं - काल - कान्तिमत ध्मातमिव ध्यातंच - तेजसा ज्वलद्धौतमिव धौतं च-निर्मलं पृष्ठ - पृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पिना ओपितानां - उजज्वालितानां । 'मिसिमिसिंत’त्ति देदीप्यमानानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्तं - वेष्टितं यत्तत्तथा तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा, एवंविधस्य तपनीयस्य सम्बन्धीनि बद्धानि चिह्नानि - लाञ्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ यौ गिरी तयोर्यानि शिखराणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org