________________
१९२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६०
-
॥१॥ "कुंभार १ पट्टइल्ला २ सुवण्णकारा य ३ सूवकारा य ४।
गंधव्वा ५ कासवगा ६ मालाकारा य७कच्छकरा ८॥ ॥२॥ तंबोलिआ ९ य एए नवप्पयारा य नारुआ भमिआ।
_अहणं नवप्पयारे कारुअवण्णे पवक्खामि॥ ॥३॥ चम्मयरु १ जंतपीलग २ गंछिअ ३ छिपाय ४ कंसकारे य।
सीवग ६गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ॥ चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथपौरान्प्रति किमवादीदित्याह-खिप्पामेव'त्ति क्षिप्रमेवभो देवानुप्रियाश्चक्ररत्नस्याष्टानांअह्नांसमाहारोऽष्टाहंतदस्तियस्यांमहिमायांसाअष्टाह्निका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ क्रमेण विशेषणानि व्याकरोति-कीशी ? -उन्मुक्तं शुल्कं-विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां, एवमुत्करां उत्कृष्टां च, करो गवादीन् प्रति प्रतिवर्षं राजदेयं द्रव्यं, कृष्टं तु–कर्षणं लभ्यग्रहणायाकर्षणं, अदेयां-विक्रयनिषेधेनअविद्यमानदातव्यां, न केनापिकस्यापि देयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेवअविद्यमानमातव्यां, अभटप्रवेशां-अविद्यमानो भटानां-राजपुरुषानामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निर्वृत्तं कुदण्डिमं-राजद्रव्यं तन्नास्ति यस्यां सा तथा तां
-तत्र दण्डो यथापराधंराजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानांप्रज्ञाद्यपराधात्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं-न विद्यते धरिमं-ऋणद्रव्यं यस्यांसा तथा तां, उत्तमर्णाधमर्णाभ्यांपरस्परंतदऋणार्थंन विवदनीयं किन्तुअस्मत्पार्श्वे द्युम्नंगृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकेयेताला–चराः-प्रेक्षाकारिविशेषास्तैरनुचरितां आसेवितां, अनुभृतां आनुरूप्येण यथामार्दङ्गिकविधि उद्धता-वादनार्थमुत्क्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यांसा तथा तां, म्लानाः पुष्पमाला उत्सार्य नवा नवा आरोपणीया इत्यर्थः ।
प्रमुदिता-हृष्टाः प्रक्रीडिताः-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः जनपदाः-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजयविजयः सप्रयोजनं यस्यांसा तथा तां, इदमायुधरलं सम्यगाराधितंमदभिप्रेतंमहाविजयं साधयतीत्यर्थः, 'प्रत्यये ङीर्वा' इति प्राकृतसूत्रेण डीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचक्क रयणस्सत्ति पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररत्नंतस्याष्टाहिकामितिप्राग्वदितिअथ श्रेणिप्रश्रेणयो यच्चक्रुस्तदाह-'तए ण'मित्यादि सर्वं पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्तयनन्तरं किमभूदित्याह
मू. (६१) तए णं से दिव्वे चक्क रयणे अट्टाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओपडिनिक्खमइ २ ताअंतलिक्खपडिवण्णेजक्खसहस्ससंपरिघुडे दिव्वतुडिअसइसण्णिणाएणं आपूरेते चेव अंबरतलं विनीआए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ त्ता गंगाए महानईए दाहिणिल्ले णं कूले णं पुरत्थिमं दिसिं मागहतित्थाभिमुहे पयाते आवि होत्था।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only