________________
वक्षस्कारः-३
१९१
कानि-मङ्गल्यवस्तूनि लिखति विन्यस्यत, अत्र चाष्टाष्टेत वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वाअष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः,अष्टानामपि मङ्गलकानां,अथोक्तानामेवमङ्गलकानां व्यक्तितोनामानि कथयन् पुनर्विध्यन्तरमाह-'तद्यथा-स्वस्तिक मित्यादि, व्याख्या तु प्राग्वत् अत्र द्वितीयालोपः इमान्यष्टमङ्गलकानि आलिख्य-आकारकरणेन कृत्वा-अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं-उचितसेवामिति, तमेव व्यनक्ति-किन्ते इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं-पाटलपुष्पं मल्लिका-विचकिलपुष्पं, यल्लोके वेलि इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरीआम्रमञ्जरी बकुलः-केसरो यः स्त्रमुखसीधुसिक्तो विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं-कूबो इति नाम्ना वृक्षविशेषस्ततपुष्पं, कोरण्टकंप्राग्वत्, पत्राणि-मरुबकपत्रादीनि दमनकः-स्पष्टः एतैर्वरसुरभिअत्यन्तसुरभि तथा सुगन्धाः-शोभनचूर्णास्तेषां गन्धो यत्र स तथा, तद्धितलक्षण इक्प्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो-मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तत्र्यायेन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात्, पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य-पञ्चवर्णस्य कुसुमनिकरस्य-पुष्पराशेः तत्र-चक्ररत्नपरिकरभूमी चित्रं-आश्चर्य- कारिणं जानूत्सेधप्रमाणेन-जानुं यावदुच्चत्वप्रमाणंप्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणचतुर्विंश-त्यङ्गुलजङ्घोच्चत्वमीलनेनाष्टाविंशत्यगुलरूपं तेन समाना मात्रा यस्य स तथा तं।
अवधिना-मर्यादया निकरं-विस्तारं कृत्वा चन्द्रप्रभाः-चन्द्रकान्ता वज्राणि-हीरका वैडूर्याणि-वालवायजानि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयोविच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरु प्रतीतः कुन्दुरुक्क :-चीडा तुरुष्कः-सिल्हकस्तेषां यो धूपो गन्धोत्तमः-सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात्, तेनानुविद्धा-मिश्रा व्याप्तेत्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः, तेन धूमवर्ति च-धूमश्रेणिं विनिर्मुञ्चन्तं, वैडूर्यमयं-केवलवैडूर्यरत्नघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवच्चन्द्रकान्तादिरलमयत्वे तुअङ्गार धूमसंसर्गजनिता विच्छायतांप्रादुर्भवेत्, 'कडुच्छुकं धूपाधानकं 'प्रगृह्य' गृहीत्वा प्रयतः' आद्रियमाणोधूपंदहति, धूपंदग्ध्वाचप्रमार्जनादिकारणविशेषेण सन्नि चीयमानमपिचक्ररलं अत्यासन्नतयामा आशातितं भूयादिति सप्ताष्टपदानिप्रत्यपसर्पतिपश्चादपसरति प्रत्यपसर्यच वामंजानुअञ्चति यावत्करणाद् । 'दाहिणंजाणुंधरणिअलंसिनिहटुकरयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ' इति संग्रहः, व्याख्या च पूर्ववत्, प्रनामं करोतिसमीहितार्थसम्पादकमिहेदमिति बुद्धया प्रीतः प्रणमति, प्रनामं कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्गच्छतीति, 'पडिनिक्ख- मित्ता’इत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषीदति--उपविशति, संनिषद्य चअष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org