________________
१९०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६० अपिवाच्याः, तद्व्याखयानं तुप्राग्वत्, नवरंपुष्पचङ्गेरीत आरभ्य मालादिपदविशेषितास्तच्चङ्गर्यो ज्ञातव्याः, लोमहस्तकचङ्गेरीतु साक्षादुपात्ताऽस्ति, अन्यास्तुलाघवार्थकत्वेन सूत्रेसाक्षान्नोक्ताः, आद्यन्तग्रहणेन मध्यग्रहणस्य स्वयमेव लभ्यमानत्वात, एवं पुष्पपटलहस्तगता माल्यादिपटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहासनहस्तगताः अप्येकिकाः छत्रचामरहस्तगताः तथा अप्येकिकाः तैलसमुद्गाः-तैलभाजनविशेषास्तद्धस्तगताः एवंकोष्ठसमुद्गकहस्तगता यावत्सर्षपसमुद्गकहस्तगता अत्र समुद्गकसंग्रहमाह-'तेल्ले कोठसमुग्गे' इति सूत्रोक्ताः, एतदर्थस्तु राजप्रश्नीयवृत्तितोऽवगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगताःव्यञ्जनपाणयः अप्येकिक धूपकडुच्छुकहस्तगता इति, अथ यया समृद्धया भरत आयुधशालागृहं प्राप तामाह
___ 'तएण'मित्यादि, ततःसभरतो राजायत्रैवायुधग्रहशाला तत्रैवोपागच्छतीति सम्बन्धः, किम्भूत इत्याह-सर्वद्धर्या-समस्तयाआभरणादिरूपया लक्ष्मयायुक्तइतिगम्यं, एवमन्यान्यपि पदानि योजनीयानि, नवरं युति-मेलः परस्परमुचितपदार्थानां तया बलेन-सैन्येन समुदयेनपरिवारादिसमुदयेन आदरेण-प्रयले आयुधरत्नभक्त्युत्थबहुमानेन विभूषया-उचितनेपथ्यादिशोभया विभूत्या-विच्छर्दैन एवंविधविस्तारेण, उक्तामेव विभूषा व्यक्त्याऽऽह-सव्वपुप्फे' त्यादि,अत्रपुष्पादिपदानिप्राग्वत्, नवरं अलङ्कारो-मुकुटादिरेतद्रूपया सर्वेषांत्रुटितानां-तूर्याणा यः शब्दो-ध्वनिर्यश्च स सङ्गतो निनादः-प्रिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारद्वन्द्वः, अथ 'सर्वमनेन भाजनस्थं घृतंपीत'मिति लोकोक्तेःप्रसिद्धत्वात् सर्वशब्देनाल्पीयोऽपि निर्दिष्टं भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह
“महया इड्डीए' इत्यादि, योजनातुप्राग्वदेव, यावतशब्दात्महात्यादि परिग्रहः महता-बृहता वरत्रुटितानां निस्वानादीनांतूर्याणांयमकसमकं युग-पत्प्रवादितं भावेक्तप्रत्यविधानात्प्रवादनं धवनितमित्यर्थःस्तेन, शङ्खः-प्रतीतः पणवो-भाण्डपटहोलघुपटह इत्यन्ये पटहस्वेतद्विपरीतः भेरीढक्का झल्लरी-चतुरङ्गुलनालि करटिसशी वलयाकारा खरमुही-काहला मुरजो-हामद्दलः मृदङ्गो-लघुमद्दलः दुन्दुभि-देववाद्यं, एषां निर्घोष-नादितेन, तत्र निर्घोषो-महाध्वनि दितंच प्रतिरवः, एकवद्भावादेकवचनं, पूर्वविशेषणंतूर्यसामान्यविषयमिदंतु तद्व्यक्तिसूचकमित्यनयोर्भेदः, आयुधगृहशालाप्राप्तयनन्तरं विधिमाह- 'उवागच्छित्ता' इत्यादि, तत्रोपागत्य आलोके-दर्शनमात्र एव चक्ररलस्य प्रनामं करोति, क्षत्रियै- रायुधवरस्य प्रत्यक्षदेवतात्वेन सङ्कल्पनात्, यत्रैव चक्ररत्नं तत्रैवोपागच्छति, लोमहस्तकं-प्रमार्जनिकां परामृशति-हस्तेन स्पृशति गृह्णातीत्यर्थः, परामृश्य च चक्ररलंप्रमार्जयति, यद्यपि नताशे रत्ने रजःसम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, प्रमाय॑ च दिव्ययोदकधारया अभ्युक्षति-सिञ्चति स्नपयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनुलिप्यच अग्रैः-अपरिभुक्तैरभिनवैवरैर्गन्धमाल्यैश्चार्चयति।
एतदेव व्यक्त्या दर्शयति-पुष्पारोपणं माल्यारोपणं वर्णारोपणं चूर्णारोपणं वस्त्ररोपणं आभरणारोपणं करोति, कृत्वा च अच्छै:-अमलैः श्लक्ष्णैः-अतिप्रतलैः श्वेतैः-रजतमयैरत एवअच्छो रसो येषां तेअच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, एताद्दशैस्तण्डुलैः, अत्र पूर्वपदस्य दीर्घान्तता प्राकृ तत्वात्, स्वस्तिकादयोऽष्टामङ्गल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org