________________
वक्षस्कारः - ३
१८१
इति, तेजः - परासहनीयः पुण्यः प्रतापः अभेदोपचारेण तद्वान् 'तेजसां हिनवयः समीक्ष्यते' इत्यादिवत्, आयुर्बलं - पुरुषायुषं तद् यावद्वीर्यं तेन युक्तः, तेन त्रुटिताङ्गप्रमाणं बोद्धव्यं, नरदेवयैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुषिरं - निश्छिद्रं अत एव द्यननिचितं-निर्भरभृतं यल्लोशृङ्खलं तदिव नाराचवज्रऋषभं प्रसिद्धया वज्रऋषभनाराचं संहननं यत्र तं तथाविधं देहं धरन्तीत्येवंशीलः । झषो - मीनः १ युगं - शकटाङ्गविशेषः २ भृङ्गारो - जलभाजनविशेषः ३ वर्द्धमानकं ४ भद्रासनं ५ शङ्खो - दक्षिणावर्त्तः ६ छत्रं प्रतीतं ७ व्यजनं- पदैकदेशे, पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'ते लुग्वा' इत्यनेन वालपदलोपः, चामरं आर्षत्वात् स्त्रीत्वं तेन व्यनीतिनिर्देशः ८ पताका ९ चक्रं १० लाङ्गूलं ११ मुशलं १२ रथः १३ स्वस्तिकं १४ अङ्कुशः १ ५ चन्द्र १६ आदित्या १७ ग्नयः प्रतीताः १८ यूपो - यज्ञस्तम्भः १९ सागरः-समुद्रः २० इन्द्रध्वज २१ पृथ्वी २२ पद्म २४ कुञ्जराः २४ कण्ठ्याः, सिंहासनं - सिंहाङ्कितं नृपासनं २५ दण्ड २६ कूर्म २७ गिरिवर २८ तुरगवर २९ मुकुट ३० कुण्डलानि ३१ व्यक्तानि, नन्द्यावर्त्तः- प्रतिदिग् नवकोणकः ३२ स्वस्तिकः ३६ ।
एतेषां द्वन्द्वः, तत एतानि प्रशस्तानि - माङ्गल्यानि सुविभक्तानि - अतिशयेन विविक्तानि यान्यनेकानि - अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो - विस्मयकरः करचरणयोर्देशभागो यस्य स तथा, अत्र पदव्यत्ययः प्राकृतत्वात् तीर्थकृतामिव चक्रिनामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि, यदाह निशीथचूर्णौ - 'पागयमणुआणं बत्तीसं लक्खणानि अट्ठसयं बलदेववासुदेवाणं अट्ठसहस्सं चक्कवट्टितित्थगरणं'ति, उर्ध्व मुखं भूमेरुदगच्छतामङ्कराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं -समूहो यत्र स तथा अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात् ।सुकुमालस्निग्धानि-नवनीतपिण्डादिद्रव्याणि तानीव मृदुकानि आवतैः - चिकुरसंस्थान विशेषः प्रशस्तानि - मङ्गल्यानि दक्षिणावर्त्तानीत्यर्थः यानि लोमानि तैर्विरचितो यः श्रीर्वत्सो- महापुरुषाणां वक्षोऽन्तर्वर्त्ती अभ्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं- आच्छादितं विपुलं वक्षो यस्य स तथा, देशे - कोशलदेशादौ क्षेत्रेतदेकदेशभूतविनीतानगय्याद सुविभक्तो - यथास्थानविनिविष्टावयवो यो देहस्तं धरतीत्येवंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरत चक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य - उद्गच्छतो रवेर्ये रश्मयः- किरणास्तैर्बोधितं -विकासितं यद्वरकमलं- प्रधानसरोजं हेमाम्बूजमित्यर्थस्तस्य विबुधो - विकस्वरो यो गर्भो - मध्यभागस्तद्वद्वर्णशरीरच्छविर्यस्य स तथा ।
हयपोसनं - 'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इव कोशः सुगुप्तत्वात् तत्सन्निभः प्रशस्तः पृष्ठस्य–पृष्ठभागस्यान्तः - चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात्, पद्मं प्रतीतं उत्पलं कुठं कुन्दजातियूथिकाः प्रतीताः वरमचम्पको - राजचम्पकः नागपुष्पंनागकेसरकुसुमं सारङ्गानि - प्रधानदलानि अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः - कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः - शरीरपरिमलो यस्य स तथा तद्धितलक्षणादिप्रत्ययात् रूपसिद्धि, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः, ते चेमे
119 11
'अव्यङ्गो १ लक्षणापूर्णो २, रूपसम्पत्तिभृत्तनुः ३ । अमदो ४ जगदोजस्वी ५, यशस्वी ६ च कृपालुहत् ७ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org