SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५५ समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोविभाजकः कुगिरि स इव महान्शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनद्रमुतोपत्तिप्रसिद्धोगिरिमन्दरो मेरुयावत्पदात्प्रथम-ननुपाङ्गतः समग्रो राजवर्णको ग्राह्यःकियत्पर्यन्त इत्याह-राज्यं प्रशासयन्–पालयन् विहरतीति ऐवमपि शाश्वती भरतनामप्रवृत्तिकथं? तदभावेच 'सेत'मित्यादिवक्ष्यमाणंनिगमनमप्यसम्भवीत्याशङ्कया प्रकारान्तरेण तत्तत्काल-भाविभरतनामचक्रवत्युद्देशेन राजवर्णनमाह--'बिइओ गमो' इत्यादि, द्वितीयो गमः-पाठ-विशेषोपलक्षितो ग्रन्थो राजवर्णकस्यायं, 'तत्र' तस्यां विनीताया, असङ्खयेयःकालोयैर्वरेस्तानिवर्षाणिअसङ्खयेयानीत्यर्थः, तेषामन्तरालेन-विचालेन, अयमर्थःप्रवचने हि कालस्यासङ्घयेयता असङ्ख्येयेयैरेव च वळवहियतेल अन्यथा समयापेक्षयाऽसङ्खयेयत्वे ऐदंयुगीनमनुष्यानामसङ्खयेया-नुष्कत्वव्यवहारप्रसङ्गः, तेनासङ्ख्येयवर्षात्मकासङ्ख्येयकाले गते एकस्माद् भरतचक्रवर्तिनोऽपरो भरतचक्रवर्ती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्तते स उत्पद्यते इति क्रियाकारकसम्बन्धः, वर्तमाननिर्देशः प्राग्वत्। ___ आवश्यकचूर्णौतु “तत्थयसंखिज्जकालवासाउए" इतिपाठः, तत्रच-भरतेसङ्ख्यातकालवर्षाणि आयुर्यस्यस सङ्ख्यातकालवर्षायुष्कः,तेनास्ययुग्मिमनुष्यत्व्यवहारोव्यपाकृतो द्रष्टव्यः तेषामसङ्ख्यातवर्षायुष्कत्वादिति, ननु भरतचक्रिणोऽसङ्ख्यातकालेऽतीयुषि सगरचक्रयादिभिरिदंसूत्रं व्यभिचारि, तेषांभरतनामकत्वाभावात्, उच्यते, नहीदंसूत्रमसङ्ख्येयकालवर्षान्तरेण सकलकालवर्तिनि चक्रवर्तिमण्डले नियमेन भरतनामकचक्रवर्तिसम्भवसूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताख्यः प्रथमचक्री, यत आह॥१॥ 'भरहे अदीहदंते अ, गूढदंते असुद्धदंते अ। सिरिअंदे सिरिभूई, सिरिसोमे अ सत्तमे।। इत्यादिसमवायाङ्गतीर्थोद्गारप्रकीर्णकादौ, स च कीश इत्याह-'यशस्वी ति व्यक्तं, उत्तमः शलाकापुरुषत्वात्, अभिजातः-कुलीनः श्रीऋषभादिवंश्यत्वात् सत्वं-साहसंवीर्य-आन्तरं बलंपराक्रमः-शत्रुवित्रासनशक्तिरेते गुणा यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्वमाह, प्रशस्ताः-तत्कालीनजनापेक्षया श्लाघनीयःवर्ण-शरीरच्छविस्वरो-ध्वनि सारः-शुभपुद्गलोपचयजन्यो धातुविशेषः शरीरदायहेतुः संहननं-अस्थिनिचयरूपं तनुकं-शरीरं बुद्धिः औत्पत्यादिका धारणा अनुभूतार्थवासनायाअविच्युति मेघा-हेयोपादेयधीः संस्थानं यथास्थान मङ्गोपाङ्गविन्यास शीलं-आचारः प्रकृति-सहजंततो द्वन्द्वे, प्रशस्ता वर्णादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाः वर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधाना-अनन्यवर्त्तिनो गौरवादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाःवर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधानाअनन्यवर्तिनोगरवादयोऽर्था यस्यसतथा, तत्र गौरवं-महासामन्तादिकृताभ्युत्थानादिप्रतिपत्ति छाया-शरीरशोभा गति-सञ्चरणमिति, अनेकेषु-विविधप्रकारेषु वचनेषु-वक्तव्येषुप्रधानोमुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्तनादौ । ॥१॥ “आदौ तावन्मधुरं मध्ये रूक्षं ततः परं कटुकम्। भोजविधिमिव विबुधाः स्वकार्यसिद्धयै वदन्ति वचः॥ ॥२॥ अथवा “सत्यं मित्रैः प्रियंस्त्रभिरलीकमधुरं द्विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy