________________
वक्षस्कारः-३
१७७
रत्वात्, यथा च धनपतिना निर्मिता तद् ग्रन्थान्तरानुसारेण किञ्चिद् व्यक्तिपूर्वकमुपदरीते। ॥१॥ "श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम्।
धनदः स्थापयामास, रत्नचामीकरोत्करैः॥ ॥२॥ द्वादशयोजनायामा, नवयोजनविस्तृता।
अष्टद्वारमहाशाला, साऽभवत्तोरणोज्वला ॥ ॥३॥ धनुषां द्वादशशतान्युच्चैस्त्वेऽष्टशतं तले ।
व्यायामे शतमेकं स, व्यधाद्वप्रंसखातिकं॥ ॥४॥ सौवर्णस्य चं तस्यार्द्ध, कपिशीर्षावलिर्बभौ ।
मणिजाऽमरशैलस्थनक्षत्रालिरिवोद्गता॥ ॥५॥ चतुरस्राश्च त्र्यम्राश्च, वृत्ताश्च स्वस्तिकास्तथा।
मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमिकाः॥ त्रिभूमाद्याः सप्तभूमं, यावत्सामान्यभूभुजाम्।
प्रासादाः कोटिशस्तत्राभूवन लसुवर्णजाः॥ ॥७॥ दिश्यैशान्यां सप्तभूमं, चतुरनं हिरण्मयम् ।
सवप्रखातिकंचक्रे, प्रासादं नाभिभूपतेः॥ ॥८॥ दिश्यन्द्रयां सर्वतोभद्रं, सप्तभूमं महोन्नतम् ।
वर्तुलं भरतेशस्य, प्रासादं नदोऽकरोत् ॥ ॥९॥ आग्नेय्यां भरतस्यैव, सौधं बाहुबलेरभूत् ।
शेषाणां च कुमारानामन्तरा ह्यभवन्तयोः॥ ॥१०॥ तस्यान्तरादिदेवस्य चैकविंशतिभूमिकम् ।
त्रैलोक्यविभ्रमं नाम, प्रासादं रत्नराजिभिः ।। ॥११॥ सद्वप्रखातिकं रम्यं, सुवर्णकलशावृतम्।
चञ्चद्ध्वजपटव्याजान्न त्यन्तं निर्ममे हरि ।। ॥१२॥
अष्टोत्तरसहस्रेण, मणिजालैसौ बभौ ।
तावत्सङ्ख्यमुखैभूरि, ब्रुवाणमिव तद्यशः॥ ॥१३॥ कल्पद्रुमैर्वृताः सर्वेऽभूवन सेभहयौकसः ।
सप्राकारा बृहद्वासःपताकामालभारिणः॥ ॥१४॥ सुधर्मसध्शी चारु, रत्नमय्यभवत्पुरी।
युगादिदेवप्रासादात्, सभा सर्वप्रभाभिधा ।। ॥१५॥ चतुर्दिक्षु विराजन्ते, मणितोरणमालिकाः ।
पञ्चवर्णप्रमांकूरपूरडम्बरिताम्बराः॥ अष्टोत्तरसहस्रण, मणिविम्बैर्विभूषितम् ।
गव्यूतिद्वयमुत्तुङ्गं, मणिरत्नहिरण्मयम् ॥ |13|12
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org