________________
-
१७६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/५३ इति सातिशयधर्मदेशनरससमुल्लासविस्मयमानऐदंयुगीननराधिपति चक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाम्णासिकसर्वजन्तुजाभतायदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभुतिबहुमानयुगप्रधानोपमानसाम्प्रतिविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविज यूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यां भरतक्षेत्रस्वरूपवर्णनप्रस्तावनागतावसर्पिण्युत्सर्पिणीद्वयरूपकालचक्रवर्णनो नाम द्वितीयो वक्षस्कारः ।
मुनि दीपरल सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्ति उपागसूत्रे द्वितीय वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता।
(वक्षस्कारः-३) वृ.अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनिमित्तं पिपृच्छिषुराह
मू. (५४) से केणटेणंभंते! एवं वुच्चई-भरहे वासे २?, गोअमा! भरहेणं वासे वेअद्धस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं जोअणसयं एगस्स य एगूणवीसइभाए जोअणस्स अबाहाए लवणसमुदस्स उत्तरेणं चोद्दसुत्तरंजोअणसयं एक्कारसय एगूणवीसइभाए जोअणस्स अबाहाए गंगाए महानईए पञ्चत्थिमेणं सिंधूए महानईए पुरथिमेणं दाहिणद्धभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए एत्थणं विनीआनामंरायणी पन्नत्ता। पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोअणायामा नवजोअणविच्छिन्नाधनवइमतिनिम्मायाचामीयरपागारा नानामणिपञ्चवण्णकविसीसगपरिमंडिआमिरामाअलका-पुरीसंकाशापमुइयपक्कीलिआपञ्चखंदेवलोगभूआ रिद्धिस्थिमिअसमिद्धा पमुइअजणजानवया जाव पडिरूवा।।
वृ. अथ-सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एवमुच्यते-भरतं वर्ष २?, द्विर्वचनंप्राग्वत्, भगवानाह-गौतम! भरतेवर्षेवैताढ्यस्यपर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योजनस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योत्तरेण, दक्षिणलवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमद्रयोगङ्गासिन्धुभ्यां व्यहितत्वान तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायांसिन्ध्यामहानद्याःपूर्वस्यां दक्षिणार्द्धभरतस्यमध्यमतृतीयभागस्य बहुमध्यदेशभगे।
अत्र-एतादृशे क्षेत्रे विनीता-अयोध्यानाम्नी राजधानी-राजनिवासनगरी प्रज्ञप्ता मयाऽन्यैश्चतीर्थकृद्भिरिति, साधिकचतुर्दशाधिकयोजनशताङ्कोत्पत्तौ त्वियमुत्पत्ति-भरतक्षेत्रं ५०० योजनानि २६ योजनानिषट् ६ कला योजनैकोनविंशतिभागरूपा विस्तृतं, अस्मात् ५० योजनानि वैताढ्यगिरिव्यासःशोध्यते, जातं४७३६, कलाः, दक्षिणोत्तरभरतार्द्धयोर्विजनयैतस्या? २३८ कलाः, इयतोदक्षिणार्द्धभरतव्यासात् 'उदीणदाहिणविच्छिन्ना' इत्यादिवक्ष्यमाणवचना-द्विनीताया विस्ताररूपाणि नव योजनानि शोध्यन्ते, जातं २२९ ११..कलाः, अस्य च मध्यभागेन नगरीत्यर्द्धकरणे ११४ योजनानि अवशिष्टस्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रयक्षेपेजाताः २२ तदर्द्ध ११ कला इति, तामेव विशेषणैर्विशिनष्टि–‘पाईणपडीणायया' इत्यादि पूर्वापर-योर्दिशोरायता, उत्तरदक्षिणयोर्विस्तीर्णा, द्वादशयोजनायामानवयोजनविस्तीर्णा धनपतिमत्या-उत्तरदिकपालबुद्धया निर्माता-निर्मितेत्यर्थः, निपुणशिल्पिविरचितस्यातिसुन्द
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org