________________
वक्षस्कारः-२
१७५
'अन्नेपठंति'त्ति, अन्ये आचार्या पठन्ति-तस्याःसमायाः प्रथमेत्रिभागेइमे-वक्ष्यमाणाः पञ्चदश कुलकराः समुत्पस्त्यन्ते, तद्यथा-सुमतिवित्ऋषभः, कचित्संमुई इति पाठस्तत्र सम्मति, उकारस्तु ‘स्वराणांस्वरा' इत्यनेन सूत्रेणप्राकृतशैलीप्रभवः, यद्वा समुचिरिति, यावच्छब्दात्पूर्वोक्ताः प्रतिश्रुतिप्रमुखा एव ग्राह्याः, वाचनान्तरानुसारेण यत्कुलकरसम्भवो निरूपितस्तद्व्यतिरिक्तं शेषपञ्च २ पुरुषपर्वसम्पाद्यमाननवरदंडनीत्यादिकं तदेवपूर्वोक्तमेवावसेयं, अत्रैव दण्डनीतिक्रमविशेषस्वरूपमाह-दण्डनीतयः कुलकरसम्पाद्याहाकारादयःप्रतिलोमाः-पश्चानुपूर्व्याजाता नेतव्याः-प्रापणीयाः बुद्धिपथमिति शेषः।
प्रथमपञ्चकस्य धिक्कारादयः उत्कृष्टमध्यमजधन्यापराधिनायथाहँ तिम्राः द्वितीयपञ्चकस्य कालानुभावनोत्कृष्टापराधविधुराणांमध्यमजघन्यापराधयोर्माकारहाकाररूपे द्वेतृतीयपञ्चकस्य पूर्वपराधद्वयविधुराणां जघन्येऽपराधे हाकारलक्षणा प्रथमेति, अत्र दण्डनीतय इत्युपलक्षणं तेन शरीरायुष्कप्रमणादिकमपि यथासम्भवं प्रतिलोमतया ज्ञेयमिति, वाचनान्तरसूत्रस्यायं भावः-अत्र व्यवच्छिन्ने राजधर्मे कालानुभावेन प्रतनु २ कषायाः शास्तारो नोग्रस्तेजस्कं दण्डं करिष्यन्ति नापि शासनीयास्तदुचितमपराधं करिष्यन्ति ततोऽरिष्ठनामकचक्रवर्तिसन्तानीयाः पञ्चदश कुलकराः भविष्यन्ति शेषाश्च तत्कृतमर्यादापालकाः क्रमेण च सर्वेऽप्यहमिन्द्रनरत्वं प्रपत्स्यन्ते, अत्र च ऋषभनामा कुलकरोनतुऋषभस्वामिनामा तीर्थकृत, तत्स्थानीयस्य भद्रकृतस्तीर्थकृतः प्रस्तुतारकस्यैकोननवतौ पक्षेष्वतिक्रान्तेषु उत्पत्स्यमानत्वेनागमेऽभिहितत्वादिति, किञ्चस्थानाङ्गसप्तेमस्थानके सप्त कुलकरा उक्तास्तत्र सुमतिनामापि नोक्तं, दशमेतुसीमङ्गरादयो दशोक्तास्तत्र सुमतिनामोक्तं, परंप्रान्तेन, समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः, स्थानाङ्गनवमस्थानकेच सुमतिपुत्रत्वेन पद्मनामोत्पत्तिरुक्ता तथा प्रस्तुतग्रन्थे द्वितायरके कुलकरा मूलत एवं नोक्ताश्चतुर्थारके तु मतान्तरेण सुमत्यादयः पञ्चदशोक्तास्तेन कुलकरानाश्रित्य भिन्न २ नामताव्यस्तनामतान्यूनाधिकनामतारूपसूत्रपाठदर्शनेन व्यामोहो न कार्यो, वाचनाभेदजनितत्वात्, तस्य, भवति हि वाचनाभेदे पाठभेदस्तत्वं तु केवलिगम्यमिति।
अथात्रैव त्रिभागे किं किं व्युच्छेदं यास्यतीतिदर्शयन्नाह-तीसेण मित्यादि, तस्यां समायां प्रथमे त्रिभागे राजधर्मो यावद्धर्माचरणं च व्युच्छेत्स्यति, यावत्करणात् गणधर्मः पाखण्ड धर्मोऽग्निधर्मश्चेति, अथ शेषद्विभागवक्तव्यतामाह
'तीसेण'मित्यादि, तस्याः समाया मध्यमपश्चिमयोस्त्रिभागयोर्या, प्रथममध्यमयोरित्यत्र यथासम्भवनमर्तयोजनाया औचित्येन मध्यमप्रथमयोरित्यवसेयं, अन्यथा शुद्धप्रतिलोम्याभावादर्थानुपपत्ति स्यादिति, अवसर्पिण्यांवक्तव्यता सा भणितव्या, गतश्चतुर्थारक इति, अथपञ्चमषष्ठावतिदेशेनाह- 'सुसमा' इत्यादि, सुषमा-पञ्चमसमालक्षणः कालस्तथैव--अवसर्पिणीद्वितीयारकवदिति, सुषमसुषमा-षष्ठारकः सोऽपितथैव-अवसर्पिणीप्रथमारकसशइत्यर्थः, कियत्पर्यन्तमत्र ज्ञेयमित्याह-यावत्षड्विधा मनुष्या अनुसक्ष्यन्ति-संतत्या अनुवर्तिष्यन्ति यावच्छनैश्चारिणः यावत्पदात् पद्मगन्धादयः पूर्वोक्ता एव ग्राह्याः । गतौ पञ्चमषष्ठी, तद्गमने चोत्सर्पिणी गता, तस्यां च गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि गतम्।
वक्षस्कारः-२ समाप्तः For Private & Personal Use Only
Jain Education International
www.jainelibrary.org