________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/५३
नैपुण्येन वा तस्य सुसम्भवत्वात् कथमन्यथाऽचैव ग्रन्थे प्रस्तुतारकमाश्रित्य पुष्करसंवर्त्तकादिपञ्चमहामेघवृष्ट्यनन्तरं वृक्षादिभिरौषध्यादिभिश्च भासुरायां सञ्जतायां भरतभूम्यां तत्कालीनमनुजा बिलेभ्यो निर्गत्य मांसादिभक्षणनियममर्यादां विधास्यन्ति तल्लोपकं च पंक्तेर्वहि करिष्यन्तीत्यर्थाभिधायकं प्रागुक्तं सूत्रं सङ्गच्छत इति ।
अथ मनुजस्वरूपमाह - 'तीसे ण'मित्यादि, सर्वं अवसर्पिणीदुष्षमारकमनुजस्वरूपवद् भावनीयं, नवरंन सिद्धयन्ति - सकलकर्मक्षयलक्षणां सिद्धिं न प्राप्नुवन्ति, चरणधर्मप्रवृत्यभावात्, अत्र भविष्यन्निर्द्देशे प्राप्ते वर्त्तमानानिर्देशः पूर्वयुक्तितः समाधेयः । इत्युतसर्पिण्यां द्वितीयारकः । 'तीसे णं समाए एक्चीसाए वास' इत्यादि, तस्यां समायां दुष्षमानाम्यां एकविंशत्या वर्षसहस्रेः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावत्परिवर्द्धमानः २ अत्रावसरे दुष्पमसुषमानाम्ना समा काल उत्सर्पिणीतृतीयारकः प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत्, 'तीसे ण 'मित्यादि, सर्वं प्राग्वत्, अवसर्पिणीचतुर्थारकसध्शत्वमुत्सर्पिणीतृतीयारकस्येति तत्सादृश्यं प्रकटयन्नाह
१७४
'तीसे न’मित्यादि, प्रायः प्राग्व्याख्यातार्थं तीर्थङ्करास्त्रयोविंशति पद्मनाभादयः चतुर्विंशतितमस्य भद्रकृन्नाम्नश्चतुर्थारके उत्पत्स्यमानत्वात्, एकादश चक्रवर्त्तिनो भरतादयो वीरचरित्रे तु दीर्घदन्तादयः द्वादश्यारिष्ठनाम्नश्चतुर्थारके एव भावित्वात्, नव बलदेवा जयन्तादयः, नव वासुदेवा नन्द्यादयः, यत्रु तिलकादयः प्रतिविष्णवो नेहोक्तास्तत्र पूर्वोक्त एव हेतुरवसातव्यः, समुत्पत्स्यन्ते गतस्तृतीयारक उत्सर्पिण्यामथ चतुर्थ
'तीसेन' मित्यादि, तस्या समायां सागरोपमकोटाकोटया द्विचत्वारिंशता वर्षसहस्रैरूनितया काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावद्वर्द्धमानोऽत्र प्रस्तावे सुषमदुष्षमानाम्ना समा कालः उत्सर्पिणीचतुर्थारकलक्षणः प्रतिपत्स्यते, 'सा ण' मित्यादि 'सा' समा त्रिधा विभक्ष्यति - विभागं प्राप्स्यति, प्रथमस्त्रभागः मध्यमस्त्रभागः पश्चिमस्त्रभागश्चेति, तत्राद्यत्रिभागस्वरूपमाह - 'तीसे न' मित्यादि, तस्यां समायां भदन्त ! प्रथमे त्रिभागे भरतस्य वर्षस्य की ध्शक आकारभावप्रत्यवतारो भविष्यति ?, गौतम! बहुसमरमणीयो यावद्भविष्यति, यावत्करणात् पूर्णोऽपि भूमिवर्णकगमो ग्राह्यः, मनुजप्रश्नमपि मनसिकृत्य भगवान् स्वयमेवाह
'म आण' मित्यादि, मनुजानां तत्कालीनानां या अवसर्पिण्यास्तृतीयारकस्य पश्चिमत्रिभागे वक्तव्यता सा अत्रापि भणितव्या, अत्रैवापवादसूत्रमाह- की शी च सा वक्तव्यतेत्याह- कुलकरान् वर्ज्जयतीतीति कुलकरवर्जा, वृजैणू वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धि, एवं ऋषभस्वामिवर्जाः, अवसर्पिण्या कुलकरसम्पाद्यानां दण्डनीत्यादीनामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामिवोत्सपिण्यामपि द्वितीयारकभाविकुलकरप्रवर्त्तितानां तेषां तदानीमनुवर्त्तिष्यमाणत्वन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसर्पिणीतृतीयारकतृतीयभागे कुलकराणां स्वरूपं ऋषभस्वामिस्वरूपं च प्राक् प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभस्वामिवर्जेत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्यं तेन ऋषभस्वाम्यभिलापं वर्जयित्वा भद्रकृतीर्थकृतोऽभिलापः कार्य इत्यागतं, उत्सर्पिणीचरमतीर्थकरस्यप्रायोऽवसर्पिणीप्रथमतीर्थकृत्समानशीलत्वात्, अन्यथोत्सर्पिणीचतुर्विंशतितमतीर्थकृतः क्व सम्भवः स्यादिति संशयादयोऽपि स्यात्, कलाद्युपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विषयकोऽभिलाप एव नास्तीति, अत्र कुलकरविषयकं वाचनाभेदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org