SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ५१ - प्रस्तावेऽमृतमेघो यथार्थनामा महामेघः प्रादुर्भविष्यति यावद्वर्षिष्यति इति पर्यन्तं पूर्ववत्, यो मेघो भरते वर्षे वृक्षा गुच्छा गुल्मा लता वल्लयः तृणानि प्रतीतानि पर्वगा - इक्ष्वादयः हरितानि - दूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः - पल्लवाः अङ्कुराः - शाल्यादिबीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान् - बादरवनस्पतिकायिकान् जनयिष्यतीति । अथ पञ्चममेघस्वरूपवक्तव्यतामाह - 'तंसि च ण' मित्यादि, व्यक्तं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहूनां वृक्षाद्यङ्करान्तानां वनस्पतीनां तिक्तो निम्बादिगतः कटुको मरिचादिगतः कषायो बिभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः मधुरः शर्कराद्याश्रितः, एतान् पञ्चविधान् रसविशेषान् जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्ग सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथग्निर्द्देशः, एषा च पञ्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते - आद्यस्य भरतभूमेर्दाहोपशमः द्वितीयस्य तस्या एव सुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं न चात्र क्षीरमेघेनैव शुभवर्णगन्धरसस्पर्शसम्पत्तौ भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि याद्दशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्र साक्षी, चतुर्थस्य तस्यां वनस्पतिजनकत्वं, पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरसविशेषजनकत्वं, यद्यप्यमृतमेघतो वनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्तिमती तथापि स्वस्वयोग्यरसविशेषान् सम्पादयितुं रसमेघ एव प्रभुरिति, तदा च याशं भरतं भावि तथा चाह 'तए णं भरहे वासे' इत्यादि, ततः उक्तस्वरूपपञ्चमेघवर्षणानन्तरं णमिति पूर्ववत् भारतं वर्षं भविष्यति, कीध्शमित्याह - प्ररूढा - उद्गता वृक्षा गुच्छा गुल्मा लता वल्लयस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि - पुष्टिमुपगतानि त्वक्पत्रप्रवालपल्लवांकुरपुष्पफलानि समुदितानि - सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा क्तान्तस्य परनिपातः प्राकृतत्वात्, एतेन वनस्पतिषु पुष्पफलानां रीतिर्दर्शिता, अत एव सुखोपभोग्यं - सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य न पौनरुक्त्यं । अथ तत्कालीना मनुजास्तादृशं भरतं द्दष्टा यत् करष्यति तदाह मू. (५२) तए णं ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअओसहीयं उवचिअतयपत्तपवालपल्लवंकुरपुप्फफलसमुइअं सुहोवभोगं जायं २ चावि पासिहिंति पासित्ता बिलेहिंतो निद्धाइस्संति निद्धाइत्ता हट्टतुट्ठा अन्नमन्नं सद्दाविस्संति २ त्ता एवं वदिस्संतिजाते णं देवाणुप्पिआ ! भरहे वासे परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअजाव सुहोवभोगे, तं जेणं देवाणुप्पिआ ! अम्हं केइ अजप्पमिइ असुभं कुणिमं आहारं आहारिस्सइ से णं अनेगाहिं छायाहिं वज्जणिज्जेत्तिकट्टु संठिइं ठवेस्संति २ त्ता भरहे वासे सुहंसुहेणं अमिरममाणा २ विहरिस्संति । बृ. 'तए ण 'मित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति, दृष्टा बिलेभ्यो निर्द्धाविष्यन्ति - निर्गमिष्यन्ति, निर्द्धाव्य हष्टा - आनन्दितास्तुष्टाः - सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy