________________
वक्षस्कारः - २
१७१
गुच्छगुम्मलयवल्लितणपव्वगयगहरिअओसहिए, उवचियतयपत्तपवालंकुरपुप्फफलसमुइए सुहोवभोगे आवि भविस्सइ ।
वृ. 'ते ण' मित्यादि, तस्मिन् काले - उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये - तस्यैव प्रथमसमये, पुष्कलं सर्वं अशुभानुभावरूपं भरतभूरौक्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्त्तयतिनाशयतीति पुष्कलसंवर्त्तकः स च पर्जन्यप्रभृतिमेघत्रयापेक्षया महान् मेघो- दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति - प्रकटीभविष्यति, भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुः शताधिकचतुर्दशयोजन सहस्ररूपेण मात्रा - प्रमाणं यस्य स तथा, केन ? - आयामेन - दीर्घभावेन, अयं भावः - पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वार्दलकं व्याप्तं भविष्यतीत्यर्थः, तदनुरूपश्च भरतक्षेत्रस्यानुरूपः - सध्शः, सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं वा, - विष्कम्भबाहल्येन, अत्र समाहारद्वन्द्ववशादेकवद्भावः, कोऽर्थः ?
यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानि षड्विंशतिर्योजनानि षट् च कला योजनैकविंशतिभागरूपाः तदतिरिक्तस्थाने तु अनियततया तथाऽस्यापि विष्कम्भः, , बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमार्द्रीकृत्य तापः उपशाम्यते तावज्जलदलनिष्पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह - 'तएण 'मित्यादि, ततश्च स - पुष्कलसंवर्त्तकमेघः क्षिप्रमेव- उन्नमनकाल एव 'पतणतणाइस्सई' ति अनुकरणवचनमेतत् प्रकर्षेण स्तनितं करिष्यति, गर्जिष्यतीत्यथः, तथा च कृत्वा क्षिप्रमेव युगं - रथावयवविशेषः मुसलं - प्रतीतं मुष्टिः- पिण्डिताङ्गुलिकः पाणि एषां यत्प्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासां ताभिः, इयता प्रमाणेन दीर्घाभि-स्थूलाभिरित्यर्थः धाराभि ओधेन - सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं . तथाविधं सप्तरात्रं- सप्ताहोरात्रान् वर्षं वर्षिष्यति करिष्यतीत्यरर्थः ।
'जेण' मिति पूर्ववत् भरतस्य वर्षस्य क्षेत्रस्य भूमिभागं अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तमज्योतिर्भूतं वाक्यान्तरप्रारम्भार्थ, पुष्कलसंवर्त्तके महामेघे सप्तरात्रं यावन्निपतिते सति-निर्भरं वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघः प्रादुर्भविष्यति, शेषं 'भरते' त्यादि प्राग्वत्, अथ स प्रादुर्भवन् किं करिष्यतीत्याह - 'तए ण' मित्यादि, अत्र वासिस्सइत्ति पर्यन्तं प्राग्वत्, यो मेघो भरतस्य भूम्या वर्णं गन्धं रसं स्पर्शं च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्याः, येभ्यो लोकोऽनुकूलं वेदयते, अशुभ- वर्णादयः प्राक्कालानुभावजनिता वर्त्तन्त एवेति, ननु यदि शुभवर्मादीन् जनयति तदा तरुपत्रादिषु नीलो वर्णो जम्बुफलादिषु कृष्णः मरिचादिषु कटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः स्पर्श सुवर्णादिषु गुरु क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं सम्भवेयुरिति ? उच्यते, अशुभपरिनामा अप्येते ऽनुकूलवेद्यया शुभा एव, यथा मरिचादिगतः कटुकरसादि प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः श्वेतवर्णादिरिति, अथ तृतीयमेघवक्त- व्यतामाह
'तंसि' इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्वं प्राग्वत्, अथ स प्रादुर्भूतः किं करिष्यतीत्याह- 'तए ण' मित्यादि, सर्वं प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभावं - स्निग्धतां जनयिष्यतीति, अथ चतुर्थमेघवक्तव्यतामाह - 'तंसि' इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org