________________
वक्षस्कारः-२
१६९ 'ते णं० ते मनुजा भगवन्! निरशीला-गताचाराः निव्रता-महाव्रताणुव्रतविकलाः निर्गुणा-उत्तरगुणविकलाः निर्मर्यादाः-अविद्यमानकुलादिमर्यादाः निष्प्रत्याख्यानपौषधोपवासा-असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः, ‘ओसण्णं' प्रायो मांसाहाराः, तथा 'क्षौद्राहाराः' मधुभोजिनः क्षीणं वा-तुछावशिष्टंतुच्छधान्यादिकं आहारो येषां ते तथा, इदं विशेषणं सूपपन्नमेव, पूर्वविशेषणे प्रायोग्रहणात्, केषुचिदादर्शेषु अत्र गड्डाहारा इति दृश्यते, स लिपिप्रमाद एव सम्भाव्यते, पञ्चमाङ्गे सप्तमशते षष्ठोद्देशे दुष्पमदुष्षमावर्णनेऽदृश्यमानत्वात्, अथवा यथासम्प्रदायमेतत्पदं व्याख्येयं, कुणपः-शवस्तद्रसोऽपिवसादि कुणपस्तदाहाराः, 'कालमासे' प्राग्वत्, निर्वचनसूत्रमपिप्राग्वत्, नवरं 'ओसण्ण'मिति ग्रहणात् कश्चित् क्षुद्राहारवान् देवलोकगाम्यपि अक्लिष्टाध्यवसायात्, अथ येतदानीं क्षीणावशेषाश्च-तुष्पदास्तेषां का गरिरितिपृच्छति- 'तीसेण'मित्यादि, तस्यां भगवन् ! समायांचतुष्पदाः-सिंहादयः प्राग्व्याख्यातार्था श्वापदाः प्रायो मांसाहारादिविशेषण-विशिष्टाः क्व गमिष्यन्ति क्व उत्पत्स्यन्ते ?, भगवानाह-गौतम ! प्रायः नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते, प्रायोग्रहणात् कश्चिदमांसादी देवयोनावपि, नवरं चिल्ललगा- नाखरविशेषा इति, अथ तदानीं तत्पक्षिगतिं प्रश्नयति-'ते ण'मित्यादि, कण्ठयं, नवरं ते णमिति क्षीणावसिष्टा ये पक्षिण इति यच्छबदबलाद् ग्राह्यं, ढङ्काः-काकविशेषाः कङ्काः-दीर्घपादाः पिलका-रूढिगम्याः मद्गुका-जलवायसाः शिखिनो-मयूरा इति, गतः षष्ठारकः, तेन चावसर्पण्यपि गता।
साम्प्रतं प्रागुद्दिष्टामुत्सर्पिी निरूपयितुकामस्तप्रतिपादनकालप्रतिपादनपूर्वकं तत्प्रथमारकस्वरूपमाह
मू. (५०) तीसेणंसभाए इक्कवीसाए वाससहस्सेहिं कालेवीइक्कते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइनक्खत्ते चोद्दसपढमसमये अनंतेहिं वण्णपज्जवेहि जाव अनंतगुणपरिवद्धीए परिवुद्धमाणे २ एत्थ णं दूसमदुसमाणाणं समा काले पडिवज्जिस्सइ समणाउसो! तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ?, गोअमा काले भविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढओ नेअब्बो, तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले विइक्कते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवद्धमाणे २ एत्थ णं दूसमानामं समा काले पडिवजिस्सइ समणाउसो!।
वृ.'तीसेण'मित्यादि, तस्यांसमायामवसर्पिणीदुष्षमदुष्षमानान्यांएकविंशत्या वर्षसहसैः प्रमिते काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सर्पिण्यां श्रावणमासस्य बहुलप्रतिपदि-कृष्णप्रतिपदि पूर्वावसर्पिण्याःआषाढपूर्णिमापर्यन्तसमये पर्यसानत्वात् बालवनाम्निकरणे कृष्णप्रतिपत्तिथ्यादिमार्धेऽस्यैव सद्भावात्, अभीचिनक्षत्रे चन्द्रेण योगमुपागते, चतुर्दशानां कालविशेषाणां प्रथमसमये-प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृद्धया परिवर्द्धमानः अत्रान्तरे दुष्षमदुष्षमानाम्ना समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन् ! इति, वर्णादीनां वृद्धिश्च येनैवक्रमेण पूर्वमवसर्पिण्यरकेषु हानिरुक्ता तथैवात्रवाच्या, चतुर्दशकालविशेषापुनः निश्वासादुश्वासाद्वा गण्यन्ते । समयस्य निर्विभागकालत्वेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहारार्थत्वेनोपेक्षा, तत्र निश्वासः उच्छासो वा १ प्राणः २, स्तोकः ३, लवः ४, मुहूर्त ५,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org