________________
१६८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४९ स्खलन्ती विह्वला च वा-अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्वपरिवर्जिताः विकृतचेष्टा नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखरपरुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि-उद्धूलितान्यङ्गानि अवयवा तस्य एताद्दशमङ्गं येषांते तथा, बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभं-अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुबन्धिदुःखभागिनः ।
'ओसण्णं ति बाहुल्येन धर्मसंज्ञा-धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्यग्रहणेन यथा सम्यग्दृष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रत्नेः-हस्तस्य यच्चतुर्विंशत्यङ्गुलक्षणं प्रमाणं तेन मात्रा-परिमाणं येषां ते तथा, इह कदाचित्षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणिपरममायुर्येषां ते तथा,श्रीविरचरित्रे तु षोडशस्त्रीणां वर्षाणि विंशति पुंसां परमायु'रिति, बहूनां पुत्राणां नप्तृणां-पौत्राणां यः परिवारस्तस्य प्रणयः-स्नेहः स बहुलो येषांते तथा, अनेनाल्पायुष्केऽपिबह्वपत्यता तेषामुक्ता, अल्पेनापिकालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन क्व ते वसन्तीत्याह-गङ्गासिन्धूमहानद्यौ वैताढ्यंच पर्वतं निश्रां कृत्वा 'बावत्तरिति द्वासप्तति स्थानविशेषाश्रिता निगोदाः-कुटुम्बानि, द्विसप्ततिसङ्ख्या चैवं-वैताढ्यादर्वाग्गङ्गायास्तटद्वये नवनवबिलसम्भवादष्टादश, एवं सिन्ध्वा अपिअष्टादश, एषुच दक्षिणार्द्धभरतमनुजा वसन्ति, वैताढ्यात परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्धभरतवासिनो मनुजा वसन्ति, बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येवमात्रा-परिमाणंयेषांतेतथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवासिनोमनुजाभविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुक्तमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह
ते णं भंते ! मणुआ' इत्यादि, ते भगवन् ! मनुजाः किमाहरिष्यन्ति ? -किं भोक्ष्यन्ते, भगवानाह-गौतम ! तस्मिन्, काले-एकान्तदुष्पमालक्षणे तस्मिन् समये-षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः-शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा-परिमाणं यस्य स ताशो विस्तरः-प्रवाहव्यासो ययोस्ते तथा, अक्षं-चक्रनाभिक्षेप्यकाष्ठं तत्र नतो-धुरः प्रवेशरन्धं तदेव प्रमाणं तेन मात्रा-अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरंजलं धरिष्यत इत्यर्थः, ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपौ (प्रवाही) कथं सगच्छेते ?, उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवसादपरजलशोषे समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति नकाप्यनुपपत्तिरिति, तदपिचजलंबहुमत्स्यकच्छपाकीर्णनचैव अब्बहुलं-बह्वप्कायं सजातीयापरापूकायपिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्ते सूरास्तमयनमुहूर्तेच, यकारलोपोऽत्र प्राकृतत्वात्, चकारौपरस्परंसमुच्चयार्थी, बिलेभ्यो निर्धाविष्यन्ति-शीघ्रया गत्या निर्गमिष्यन्ति, मुहूर्तात्परतोऽतितापातिशीतयोरसहनीयत्वात्, बिलेभ्यो निर्धाव्य मत्स्यकच्छपान् स्थलानि-तटभूमीः णिगन्तत्वाद् द्विकर्मकत्वं ग्राहयिष्यन्ति-प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपतप्तैः रात्रौशीतेनदिवाआतपेनतप्तैः-रसशोषं प्रापितैराहारयोग्यताप्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद्मत्स्यकच्छपैरेकविंशतिं वर्षसहस्पणियाववृत्तिं-आजीविकां कल्पयन्तो-विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org