________________
१६६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ४९
ग्रामारण्ययोर्य प्रचारस्तत्र निरतान्-आसक्तान् त्रसांश्च प्राणान् - द्वीन्द्रियादीन् बहुप्रकारान् तता वृक्षान् - आम्रादीन् गुच्छान् - वृन्ताकीप्रभृतीन् गुल्मान् - नवमालिकादीन् लता - अशोकलताद्याः वल्लीः – वालुङ्क्यादिकाः प्रवालान्- पल्लवान् अङ्कुरान् -- शाल्यादिवीजसूचीः इत्यादीन् तृणवनस्पतिकायिकान्- बादरवनस्पतिकायिकान्, सूक्ष्मवनस्पतिकायिकानां तैरुपघातासम्भवात्, तथा औषधीश्च - शाल्यादिकाः चोऽभ्युच्चये, 'पव्वए' यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो दृश्यः, तथाहि - पर्वतननाद् - उत्सवविस्तारणात् पर्वता-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटप्रभृतयः डुङ्गानि - शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुङ्गराः -शिलोच्चयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि 'भट्ठि'त्ति भ्राष्ट्राः पांस्वादिवर्जिता भूमयः तत एतेषा द्वन्द्वस्ते आदिर्येषां ते तथा तानू, आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः ।
,
अत्रार्थेऽपवादमाह - वैताढ्यगिरिवर्जान् पर्वतादीनित्यर्थः, शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूटं शाश्वतप्राय श्रीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा तथा सलिलबिलानिभूनिर्झराः विषमगर्त्ताश्च- दुष्पूरश्वभ्राणि कचिद्दुर्गपदमपि द्दश्यते, तत्र दुर्गाणि च - खातवलयप्राकारादि दुर्गमाणि निम्नानि च तान्युन्नतानि च निम्नोन्नतानि - उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वतनदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति ।
अथ तत्र भरतभूमिस्वरूपप्रश्नमाह - 'तीसे ण' मित्यादि, तस्यां भदन्त ! समायां भरतस्य भूमेः की शक आकारभावप्रत्यवतारः भविष्यति ?, भगवानाह - गौतम ! भूमी भविष्यति, अङ्गारभूता–ज्वालारहितवह्निपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता-भस्मरूपा तप्तकवेल्लुकभूता-वह्निप्रतप्तकवेल्लुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे क्तप्रत्यविधानात् तापेन समा-तुल्या ज्योतिषा - वह्निना भूता-जाता या सा तथा, पदव्यत्यय एवं समासश्च प्राकृतत्वात्, धूलिबहुलेत्यादौ धूलि - पांशुः रेणुः - वालुका पङ्कः–कर्द्दमः पनकः– प्रतल - कर्द्दमः चलनप्रमाणकर्द्दमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्वानां दुःखेन नितरां क्रमः -क्रमणं यस्यां सा दुर्निष्क्रमा, दुरतिक्रमणीयेत्यर्थः, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्त्तिना भविष्यतिपदेन न पौनरुक्त्यं ।
अथ तत्र मनुष्यस्वरूपं पृच्छति - 'तीसे ण 'मित्यादि, प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे गौतम मनुजा भविष्यन्ति, कीध्शा इत्याह- दूरूपा - दुःस्वभावाः दुर्वर्णा- कुत्सितवर्णा, एवं दुर्गन्धाः दूरसा:- रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शा-कर्कशादिकुत्सितस्पशाः अनिष्टा- अनिच्छाविषयाः, अनिष्टमपि किञ्चित्कमनीयं स्यादित्यत आह- अकान्ताः - अकमनीयाः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये स्यादतोऽप्रिया - अप्रीतिहेतवः, अप्रियत्वं च तेषां कुत इत्याहअशुभा - अशोभनभावरूपत्वात्, अशुभत्वं च विशेषत आह-न मनसा - अन्तः संवेदनेन शुभतया ज्ञायन्ते इत्यमनोज्ञाः, अमनोज्ञतयानुभूतमपि स्मृतिदशायां दशाविशेषण किञ्चिन्मनोज्ञं स्यादत आह-‘अमनोऽमाः' न मनसा अम्यन्ते - गम्यन्ते पुनः स्मृत्या इत्यमनोमाः एकार्थिका वा एते शब्दा अनिष्टताप्रकर्षवाचका इति, मूर्त्या अनिष्टादिविशेषणोपेता अपि केचिद् डुम्बा इव सुस्वराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org