________________
वक्षस्कारः - २
१६५ 'तीसेण'मित्यादि, तस्यांसमायामुत्तमकाष्ठाप्राप्तायांउत्तमावस्थागतायामित्यर्थः परमकष्टप्राप्तायांवा,भरतस्य कीदृशः कः आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणं आकारभावप्रत्यवतारःप्रज्ञप्तः?, भगवानाह-गौतमेत्यामन्त्रय वक्ष्यमाणविशिष्टः कालो भविष्यति, कीशइत्याह-'हाहाभूताः' हाहा इत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः सहाहाभूतः, भाम्भांइत्यस्य दुःखार्तगवादिभिकरणं भम्भोच्यते तद्भूतो यः सभम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरीसाचान्तःशून्या ततोभम्भेवयः कालो जनक्षयात्तच्छ्न्यः स भम्भाभूत इत्युचयते, कोलाहल ईहार्त्तशकुनसमूहध्वनि तं भूतः-प्राप्तः, कोलाहलभूतः समानुभावेन-कालविशेषसामर्थेनच, चकारोऽत्रवाच्यान्तरदर्शनार्थः, णमित्यलङ्कारे, खरपरुषाःअत्यन्तकठोराधल्याच मलिनायेवातास्ते तथा दुर्विषहाः-दुस्सहाः व्याकलाअसमञ्जसा इत्यथः भयङ्कराः,चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः, संवर्तकाश्च-तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति, इहास्मिन् काले अभीक्ष्णं-पुनः पुन—मायिष्यन्ते च-धूममुद्वमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात्-सर्वतो रजस्वला-रजोयुक्ताः,अत एवरेणुना-रजसा कलुषा-मलिनास्तथा तमःपटलेन-अन्धकारवृन्देन निरालोका-निरस्तप्रकाशा निरस्तष्टिप्रसरावा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिक अहितंवाअपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-म्रक्ष्यन्ति तथैव सूर्यास्तप्स्यन्ति, तापमोक्ष्यन्तीत्यर्थः, कालरौक्ष्येण शरीररौक्ष्यं तस्माचाधिकशीतोष्णपराभव इति। ___अथ पुनस्तत्स्वरूपं भगवान् स्वयमेवाह-'अदुत्तर'मित्यादि, अथापरं च हे गौतम ! अभीक्ष्णं-पुनः पुनः अरसा-मनोज्ञरसवर्जितजलाये मेघास्ते तथा विरसा-विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते-क्षारमेघाः-सर्जादिक्षारसमानजलोपेतमेघाः खात्रमेघाः-करीषसमानरसजलोपेतमेघाः 'खट्टमेहे तिक्वचिद् दृश्यते तत्राम्लजला मेघाःअग्निमेघा अग्निवद्दाहकारिजला इत्यर्थः विद्युप्रधानाएवजलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युनिपातकार्यकारिजलनिपातवन्तो वा मेघाः विषमेघाः-जनमरणहेतुजलाः अत्र असनिमेहा इत्यपि पदं क्वचिद् दृश्यते तत्रायमर्थ-करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं-न यापनाप्रयोजकमुदकं येषां ते तथा, असमाधानकारिजला इत्यर्थः, कचिद्-'अपिबणिजोदगा' इति तत्रापातव्यजला इत्यर्थः एतदेव व्यनक्ति-व्याधिरोगवेदनोदीरणापरिनामसलिलाः' व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योघातिनः शूलादयस्तदुत्थाया वेदनाया उदीरणाअप्राप्तसमये उदयप्रापणं सैव परिनामः-परिपाको यस्य सलिलस्य तत्तथा, तदेवंविधं सलिलं येषांते तथा, अतएवामनोज्ञपानीयकाः चण्डानिलेन प्रहतानां-आच्छोटितानां तीक्ष्णानां-वेगतीनां धाराणां निपातः स प्रचुरो यत्र वर्षे स तथा तं, वर्ष वर्षिष्यन्ति करिष्यन्तीत्यर्थः,
ग्रन्थान्तरे तु एते क्षारमेघादयो वर्षशतोनैकविंशति-वर्षसहस्रप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति, अथ तेन वर्षणेनारसमेघादयः किं करिष्यन्तीत्याह- येन वर्षणेन करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्य- न्तीति सम्बन्धः, भरतवर्षे ग्रामाद्या आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपदं-मनुष्यलोकंतथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका-उरभ्रास्तान् तथा खचरान्- वैताढ्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org