________________
१४८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४४ स तथा, किमुक्तं भवति ? स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः स्वावयवभूतपक्षसापेक्षगामित्वात्, तेन विहगवदयंप्रभुरनेकेष्वनार्यदेशेषुकर्मक्षयसाहायककारिषु परानपेक्षः स्वशक्त्या विहरतीति, सागर इव गम्भीरः-परैरलब्धमध्यो निरुपमज्ञानवत्वेऽपि रहःकृतपरदुश्चरितानामपरिस्रवित्वात्हर्षशोकादिकारणसद्भावेऽपितद्विकारादर्शनाद्वा, मन्दर इवअकम्पः, स्वप्रतिज्ञातेषुतपःसंयमेषु ध्ढाशयत्वेनप्रवर्तनात्, पृथ्वीवसर्वान्स्पर्शाननुकूलतरान् विषहते यः स तथा, जीव इवाप्रतिहतगति-अस्खलितगति, यता हि जीवस्य कट्कुटयादिभिर्न गति प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिर्विहन्यते इत्याह
'नत्थिण मित्यादि नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः-अयं ममास्याहमित्याशयबन्धरूपः, अयमेव हि संसारशब्दव्यपदेश्यः, यदूचे॥१॥ “अयं ममेति संसारो, नाहं न मम निर्वृति।
चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् ।।" स च द्रव्यतः-द्रव्यं प्रतीत्य , एवं क्षेत्रत इत्याद्यपि, तत्र द्रव्यत इति व्याख्येयपदपरामर्शार्थ तेन न पौनरुक्त्यं, इह लोके खलुक्यालङ्कारे माता मम पिता ममेत्यादि यावत्करणात् 'भज्जा मे पुत्ता मे धूआ मे नत्ता मे सुण्हा मे सहिसयण'त्ति भार्यापुत्रौ प्रसिद्धौ धूआ-पुत्री नप्ता-पुत्रपुत्रः स्नुषा-पुत्रभार्या सखा-मित्रं स्वजनः-पितृव्यादि सग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादि संस्तुतो-भूयोदर्शनेन परिचितः, एषां च जीवपर्यायत्वा द्रव्यत्वं, कथञ्चित् पर्यायपर्यायिणोरभेदोपचारात्, हिरण्यं मे सुवर्ण मे, यावच्छब्दात् ।
'कंसं मे दूसंमेधनं मे इत्यादिप्रकरणं उपकरणं-उक्तव्यतिरिक्तं, अयंचयावत्पदसंग्रहोऽष्टमूलकत्वेनमयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशून्यतार्थं लिखितोऽस्तितेन सैद्धान्तिकैरेतन्मूलपाठगवेषणायामुद्यमः कार्य, प्रकारान्तरेण द्रव्यप्रतिबन्धमाह-अथवेति-प्रकारान्तरे, उक्तरीत्या प्रतिव्यक्तिकथनस्याशक्यत्वेन सङेपत उच्यतेइति शेषः, सच्चित्तेद्विपदादौ अचित्तेहिरण्यादौ मिश्रे-हिरण्यालङकृतद्विपदादौ, द्रव्यजाते-द्रव्यप्रकारेवासमुच्चये स-प्रतिबन्धस्तस्य प्रभोरेवमिति-ममेदमित्याशयबन्धेन न भवति। खित्तओ' इत्यादि, नवरं क्षेत्रं-धान्यजन्मभूमि खलं-धान्यमेलन- पचनादिस्थंडिलं एवं-उक्तरीत्या आशयबन्धस्तस्य प्रभोर्न भवति, 'कालओ'इत्यादि, कालतः स्तोके-सप्तप्राणमाने लवे-सप्तस्तोकमाने मुहूर्ते-सप्तसप्ततिलवमाने अहोरात्रे-त्रिंशन्मुहूर्तमाने पक्षे-पञ्चदशाहोरात्रमाने मासे-पक्षद्वयमाने ऋतौ-मासद्वयमाने अयने-ऋतुत्रयमाने संवत्सरे-अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले-वर्षशतादौ प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अयमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां शीततुरनुकूल-तया प्रतिबन्धं विधत्ते निर्द्धनानां तु उष्णर्तुः _ 'भावओ'इत्यादि, कण्ठयमेतत्, नवरं कदाग्रहवशात् क्रोधादी न् न त्यजामीति धीन तस्येत्यर्थः, एतच्च सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं भगवान् विहरतिस्मेत्याह-स भगवान् वर्षासु-प्रावट्कालेवासः-अवस्थानंतद्वजः, तेनविनेत्यर्थः, हेमन्ताः-शीतकालमासाः गीष्मा-उष्णकालमासास्तेषु ग्रामे–अल्पीयसि सन्निवेशे एका
Jain Education International
For Private & Personal Use
www.jainelibrary.org