________________
वक्षस्कारः -२
१४७
चेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनिर्देश आर्षत्वात्, अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः-पुरीषंप्रश्रवणं-मूत्रंखेलः-कफःसिंघानो-नासिकामलःजल्ल:शरीरमलः एषां परि-सर्व प्रकारैः स्थापन-अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दर चेष्टा क्रिया इत्यर्थः, तस्यां समितः-उपयुक्तः, “प्रत्यये ङीर्नवा" इति प्राकृतसूत्रेण स्त्रलक्षणो ङीप्रत्ययो विकल्पनीयः।
यथा ईरियावहिआए विराहणाए' इत्यत्र, एताच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपिनामाखण्डनार्थमुक्तमितिबादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकयातुयथावस्त्रषणाया असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवो न, आहारादौ तस्या उपयोगात्, तथाऽन्यभाण्डासम्भवेऽपि देवदूष्यसम्बन्धिनी चतुर्थसमितिर्भवत्येव, दृश्यते च श्रीवीरस्य द्विजदाने देवदूष्यादाननिक्षेपौ, एवं श्लेष्माद्यभावेऽपिनीहारप्रवृत्तौ पञ्चमीसमितिरपीत्यलं प्रसङ्गेन, तथा मनःसमितः-कुशलमनोयोगप्रवर्तकः वचःसमितः-कुशलवाग्योगप्रवर्तकः, भाषासमितइत्युक्तेऽपि यद्वचःसमित इत्युक्तं तद् द्वितीयसमितावत्यादरनिरूपणार्थं करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थं च, कायसमितः-प्रशस्तकायव्यापारवान्, मनोगुप्तः-अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिएत्ति वाग्गुप्तः-अकुशलवागयोगनिरोधकः कायगुप्तः-अकुशलकाययोगनिरोधकः, एवं च सत्प्रवृत्तिरूपाः समितयोऽसत्वप्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात्, गुप्तेन्द्रियः शब्दादिष्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्तनात्, तथा गुप्तिभिर्वसत्यादिभिर्यत्नपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरतिरूपंचरतीत्येवंशीलः, तथा अक्रोधः यावत्करणात् ‘अमाणे अमाए' इति पदद्वयं ग्राह्यं, व्यक्तं च, अलोभः, अत्र सर्वत्र स्वल्पार्थेनञ् ग्राह्यः, तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहावधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात्, कुत एवंविध इत्याहश्रान्तो-भवभ्रमणतः प्रस्वान्तः-प्रकृष्टचित्तः उपसर्गाद्यापातेऽपिधीरचित्तत्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्तापवर्जितत्वत्, छिन्नश्रोताः-छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो-द्रव्यभावमलरहितः, अथ सोपमानैश्चतुर्दशविशेषणैर्भगवन्तं विशिनष्टि
'शङ्खमिवे'त्यत्र प्राकृतशैल्या क्लीबभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाअनं-कर्म जीवमालिन्यहेतुत्वात् यस्मात्स तथा, जात्यकनकमिव-षोडशवर्णककाञ्चनमिवजातंरूपं-स्वरूपं रागादिकुद्रव्यविरहाद्यस्यसतथा, आदर्श-दर्पणेप्रतिभागः-प्रतिबिम्बः सइवप्रकटभावः, अयमर्थःआदर्श प्रतिबिम्बितस्य वस्तुनो यथा यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते, न तु शठवद्दर्शितावहित्य इति, कूर्मवद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमयमपीन्द्रियपञ्चकेन, पूर्वोक्तं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रिव निरुपलेपः, पङ्कजलकल्पस्वजनविषयस्नेहरहित इत्यर्थः, गगनमिव निरालम्बनः-कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिवनिरालयोवसतिप्रतिबन्धवन्ध्यः, यथोचितंसततविहारित्वात्, अयमत्राशयःयथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा प्रभुरपीति, चन्द्र इव सौम्यदर्शनः-अरौद्रमूर्ति, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात्, विहगः-पक्षी सइवाप्रतिबद्धतया गच्छतीत्येवंशीलः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org