SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-२ १४९ रात्रिर्वासमानतया यस्यस एकरात्रिकः एकदिनवासीत्यर्थः, नगरे-गरीयसिसन्निवेशपञ्च रात्रयो वासमानतया यस्य स तथा, पञ्चदिनवासीति भावः, यथा दिनशब्दोऽहोरात्रवाची तथा रात्रिशब्दोऽप्यहोरात्रवाचीति. ननतर्हि दिनशब्दएवकथंनोपात्तः?,निशाविहारस्यासंयमहेतत्वेन चतुर्ज्ञानिनोऽपि तीर्थकरा अवगृहीतायां वसतावव वासतेय्यां वसन्तीति वृद्धाम्नायः। 'व्यपगतहास्यशोकरतिभयपरित्रासः' तत्रारति-मनसोऽनौत्सुक्यमुद्वेगफलकं रतितदभावः परित्रासः-आकस्मिकं भयं शेषं व्यक्तं, निर्गतो ममेतिशब्दो यस्मात् स तथा, किमुक्तं भवति?-प्रभोर्ममेताभिलापेनाभिलाप्यं नास्तीति, षष्ट्येकवचनान्तस्यास्मच्छब्द- स्यानुकरणशब्दत्वान्ममेत्यस्य साधुता, निरहंकारः-अहमितिकरणमहङ्कारः सनिर्गतो यस्मात्स तथा, लघुभूत ऊर्ध्वगतिकत्वात्, अत एवाग्रन्थो-बाह्याभ्यन्तरपरिग्रहरहितः, वास्या-सूत्रधारशस्त्रविशेषेण यत्तत्तक्षणं-त्वच उत्खननं तत्राद्विष्ट:--अद्वेषवान्, चन्दनानुलेपनेऽरक्तःअरागवान्, लेष्टो-४षदिकाञ्चनेचसमः, उपेक्षणीयत्वेनोभयत्र साम्यमाक, इहलोके वर्तमानभवे मनुष्यलोके परलोके-देवभवादो तत्राप्रतिबद्धः तत्रत्यसुखनिष्पिपासित्वात् जीवितमरणयोर्निर वकांक्षः-इन्द्रनरेन्द्रादिपूजाप्राप्तौजीविते दुर्विषहपरीषहाप्तीच मरणे निस्पृहः, संसारपारगामीति व्यक्तं, कर्मणां सङ्गः-अनादिकालीनोजीवप्रदेशैः सह सम्बन्धस्तस्य निर्घातनं-विश्लेषणं तदर्थमभ्युत्थित-उद्यतो विहरति । अथ ज्ञानकल्याणकवर्णनायाह_ 'तस्सणं०-, 'तस्य भगवतः ‘एतेन' अनन्तरोक्तेन विहारेण विहरत एकस्मिन् वर्षसहस्र व्यतिक्रान्ते सति पुरिमतालस्य नगरस्य बहि शकटमुखे उद्याने न्यग्रोधवरपादपस्याधो 'ध्यानान्तरिके ति अन्तरस्य-विच्छेदस्य करणमन्तरिका अथवाअन्तरमेवान्तर्य, स्त्रत्वविवक्षायां डीप्रत्यये आन्तरी आन्तर्येवान्तरिका ध्यानस्यान्तरिकाध्यानान्तरिका___आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य कोऽर्थः? -पृथक्त्ववितर्क सविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्मक्रियमप्रतिपाति ३ व्यूच्छिन्नक्रियमनिवर्ति४इतिचतुश्चरणात्मकस्यशुक्लध्यानस्य चरणद्वयेध्यातेचरमचरणद्वयमप्रतिपन्नस्येति, योगनिरोधरूपध्यानस्य चतुर्दशगुणस्थानवर्तिनिकेवलिन्येव सम्भवात्, फाल्गुनबहुलस्यैकादश्यां पूर्वाह्नकालरूपोयःसमयः-अवसरस्तस्मिन्अष्टमेन भक्तेन-आगमभाषयोपवासत्रयलक्षणेनापानकेन-जलवर्जितेनोत्तराषाढानक्षत्रे चन्द्रेण सहेतिगम्यं योगमुपागतेसति, अथवाआर्षत्वात् सप्तम्यर्थे तृतीया, अनुत्तरेणेति-क्षपकश्रेणिप्रतिपन्नत्वेन केवलासन्नत्वेन परमविशुद्धिपदप्राप्तत्वेन न विद्यते उत्तरं-प्रधानमग्रवर्ति वा छाद्मस्थिकज्ञानं यस्मात्तत्तथा। तेन ज्ञानेन-तत्वावबोधरूपेण, एवं सावच्छब्दात् दर्शनेन क्षायिकभावापन्नेन सम्यक्त्वेन चारित्रेण-विरतिपरिनामरूपेण क्षायिकभावापन्नेनैव तपसे ति व्यक्तं बलेन' संहननोत्थप्राणेन 'वीर्येण' मानसोत्साहेन आलयेन' निर्दोषवसत्या 'विहारेण' गोचरचर्यादिहिण्डनलक्षणेन 'भावनया' महाव्रतसम्बन्धिन्या मनोगुप्तयादिरूपया पदार्थानमनित्यत्वादिचिन्तनरूपया वा 'क्षान्त्या' क्रोधनिग्रहेण 'गुप्तया' प्राग्व्याख्यातस्वरूपया मुक्त्या' निर्लोभतया 'तुष्टया' इच्छानिवृत्या 'आर्जवेन' मायानिग्रहेण ‘माईवेन' माननिग्रहेण ‘लाघवेन' क्रियासु दक्षभावेन, भावे क्तप्रत्ययविधानात्, सोपचितं-सोपचयं पुष्टमितियावत् एताशेन प्रस्तावानिर्वाणमार्गसम्बन्धिनैव सुचरितेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy