________________
१४४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४३ सिद्धार्थवनविपुलराजमारगं कुर्वन्, तथा हयगजरथानां पहकरे'त्ति देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः, तथापदातीनांचटकरेणवृन्देनचमन्दं २-यथा भवतितथा, क्रियाविशेषणं, यथा हयादिसेना पाश्चात्या समेति तथा २ बहुतरबहुतमकमित्यर्थः, उद्धतरेणुकं-ऊर्ध्वगतरजस्कं कुर्वन्, यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छतीति। ___-उपागत्य यत्करोतितदाह-उपागत्याशोकवरपादपस्याधः शिबिकांस्थापयति, स्थापयित्वा चशिबिकायाःप्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्यचस्वयमेवाभरणालङ्कारान्, तत्राभरणानिमुकुटानीति अलङ्कारान्-वस्त्रदीन्, सूत्रे एकवचन् प्राकृतत्वात्, आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अवमुञ्चति-त्यजति, कुलमहत्तरिकाया हंसलक्षणपटेअवमुच्यच स्वयमेव चतसृभिः 'अठ्ठाहिंतिमुष्टिभिः करणभूताभिलुचनीयकेशानांपञ्चमभागलुञ्चिकाभिरित्यर्थः, लोचं करोति, अपराड्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपिअस्य भगवतश्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्राद्यभिप्रायोऽयं
_ 'प्रथममेकया मुष्ट्या स्मश्रुकूर्चयोर्लोचे तिसृभिश्च शिरोलोचे कृते एकां मुष्टिमवशिष्यमाणां पवनान्दोलितांकनकावदातयोः प्रभुस्कन्धयोरुपरिलुठन्तीं मरकतोपमानमाविभ्रतीपरमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन्! मय्यनुग्रहं विधायध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव रक्षितेति, 'न ह्येकान्तभक्तानां याचनामनुग्रहीतारः खण्डयन्तीति, अत एवेदानीमपि श्रीऋषभमूर्ती स्कन्धोपरि वल्लरिका क्रियन्ते इति, लुञ्चिताश्च केशाः शक्रेणहंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति, षष्ठेन-भक्तेन उपवासद्वयरूपेण अपानकेनचतुर्विधाहारेण ।
'आषाढाभि'रित्यत्र 'तेलुग्वे' त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचनवैषम्यमार्षत्वात्, नक्षत्रेणयोगमुपागतेनार्थाच्चन्द्रेणेति गम्यं, उग्राणां अनेनैवप्रभुणाआरक्षकत्वेन नियुक्तानांभोगानांगुरुत्वेन व्यवहतानां राजन्यानां-वयस्यतया व्यवस्थापितानां क्षत्रियाणां-शेषप्रकृतितया विकल्पितानां चतुर्भिपुरुषसहनैः सार्धं, एतेच बन्धुभिः सुहृद्भिर्भरतेन च निषिद्धाअपिकृतज्ञत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरहभीरवो वान्तान्न इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्तिस्म, एकंदेवदूष्यंशक्रेणवामस्कन्धेजीतमित्यर्पितं उपादाय, न तुरजोहरणादिकं लिड्गंकल्पातीतत्वाजिनेन्द्राणां, मुण्डोद्रव्यतः शिरः कूर्चलोचनेन भावतः कोपाद्यपासनेन भूत्वा अगाराद्-गृहवासान्निष्कम्येति गम्यं, अनगारितां-अगारी-गृही असंयतस्तत्प्रतिषेधादनगारी-संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः प्रव्रजितः-प्रगतः प्राप्त इतियावत्, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया प्रव्रजितः-प्रव्रज्यांप्रतिपन्नः।
अथ प्रभोश्चीवरधारित्वकालमाह
मू (४४) उसभेणं अरहा कोसलिए संवच्छरंसाहिअंचीवरधारी होत्या, तेण परं अचेलए। जप्पभिइंचणं उसभे अरहा कोसलिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइएतप्पभिइंचणं उसभे अरहा कोसलिए निच्चं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पजंति तं०
दिव्वा वा जाव पडिलोमा वा अनुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए आउद्देज्जा अनुलोमा वं देज्ज वा जाव पज्जुवासेज वा ते सव्वे सम्मं सहइ जाव अहिआसेइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org