________________
वक्षस्कारः -२
१४३
पदपर्यन्तं तु सूत्रे साक्षादेवनास्ति, अत्र व्याख्या
हदयमालासहसैः-जनमनःसमूहैरभिनन्द्यमानः २-समृद्धिमुपनीयमानो २ जय जीव नन्देत्याद्याशीर्दानेन, मनोरथमालासहसैः-एतस्यैवाज्ञापरा भवाम इत्यादिजनविकल्पैर्विशेषण स्पृश्यमानः २ इत्यर्थः वदनमालासहस्रर्वचनमालासहस्रैर्वा अभिष्ट्रयमानं २ कान्त्यादगुणैर्हेतुभिः प्रार्थ्यमानो२ भर्तृतया स्वामितयावा स्त्रीपुरुषजनैरभिलष्यमाणः २ अंगुलिमालासहनैर्दय॑मानः २ दक्षिणहस्तेन बहूनां नरनारीसहनैणांअञ्जलिमालाः-संयुतकरमुद्राविशेषवृन्दानि प्रतीच्छन् २गृह्णन् २, किमुक्तंभवति? -त्रैलोक्यनाथेनापिप्रभुणा पौराणामस्माकमञ्जलिरूपाभक्तिर्मनस्यवतारितेति दक्षिणहस्तदर्शनं तथा महाप्रमोदाय भवतीति कुर्वन्, म मञ्जुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्२-प्रश्नयन् २ प्रणमतांस्वरूपादिवार्ता, भवनानां-विनीतानगरीगृहाणांपङ्क्तयासमश्रेणिस्थित्या सहस्राणिनतुपुष्पावकीर्णस्थित्या, समतिक्रामन् २, तन्त्रयातलतालाः प्रसिद्धाः, त्रुटितानि-शेषवाद्यानितेषांवादितं-वादनं, प्राकृतत्वात्पदव्यत्ययः गीतंचतयोरवेणयद्वा तत्र्यादीनां त्रुटितान्तानां गीते-गीतमध्ये यद्वादितं-वादनं तेन यो रवः-शब्दस्तेन मधुरेण-मनोहरेण तथा जयशब्दस्य उदघोषः-उद्घोषणं विशदः-स्पष्टतया प्रतिभासमानं यत्र तेन मझुम ना घोषेण पौरजनरवेण च प्रतिबुद्धयमानः २-सावधानीभवन् २ कन्दराणि-दर्यं गिरीणां 'विवरकुहराणि' गुहाः पर्वतान्तराणि च गिरिवराः-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानिउच्चाविरलगेहानि देवकुलानि-परतीतानि शृङ्गाटकं-त्रिकोणस्थानं त्रिकं यत्ररथ्यात्रयं मिलति चतुष्कं-यत्र रथ्याचतुष्टयं चत्वरं-बहुमार्गाः।
__ आरामाः-पुष्पजातिप्रधानवनखण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानिनगरासन्नानि सभा-आस्थायिकाः प्रपा-जलदानस्थानं एतेषां ये प्रदेशदेशरूपा भागास्तान्, तत्र प्रदेशा-लघुतरा भागा देशास्तु लघवः प्रतिश्रुतः-प्रतिशब्दास्तेषां शतसहस्रणि-लक्षास्तैः सङ्घलान् कुर्वन्, अत्र बहुवचनाते एकवचनं प्राकृतत्वात्, हयानां हेषितेन-हेषारवरूपेण हस्तिनां गुलगुलायितरूपेण, रथानां घनघनायितेन-घनघनायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेण आनन्दशब्दत्वान्मधुरेण-अक्रूरेण पूरयन् २, अत्र नभ इति उत्तरग्रन्थधवर्तिना पदेन योगः, सुगन्धानां वरकुसुमानां चूर्णानां च उद्वेधः-ऊर्ध्वगतो वासरेणुः-वास रजस्तेन कपिलं नभः कुर्वन् कालागुरु-कृष्णागुरु कुंदुरुक्कः-चीडाभिधं द्रव्यं तुरुष्कं-सिल्हकं धूपश्चदशादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव, अत्रोत्प्रेक्षा तु जीवलोकवासनस्यावास्तवत्वेन, सर्वतः क्षुभितानि-साश्चर्यतया ससम्भ्रमाणि चक्रवालानिजनमण्डलानि यत्र निर्गमे तद्यथा भवतीत्येवं निर्गच्छतीति, प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्चये प्रमुदितास्त्वरितप्रदाविताश्च-शीघ्रंगच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोलः-शब्दः स बहुलो यत्र तत्तथा, एवंभूतं नभः कुर्वन्, विशेषणानां व्यस्ततया निपातः प्राकृतत्वादिति, निर्गत्य च यत्रागच्छति तदाह
'आसि'इत्यादि, आसिक्तं-ईषत्सिक्तंगन्धोदकादिना प्रमार्जितं कचवरशोधनेन सिक्तंतेनैव विशेषतोऽत एव शुचिकं-पवित्रं पुष्पैर्य उपचारः-पूजा तेन कलितंयुक्तं, इदं च विशेषणं प्रमार्जितासिक्तसिक्तशुचिकमित्येवं दृश्य, प्रमार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, एवंविधं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org