________________
वक्षस्कारः - २
१२५
महापुरुषाः-छत्रपत्यादयस्तेषां पतनानि - कालधर्मनयनानि तत एव महारुधिराणिछत्रपत्यादिसत्करुधिराणि तेषां निपतनानि-प्रवाहरूपतया वहनानि, अत्रोत्तरम् - नेत्यादि, यतस्ते व्यपगतो वैर्यानुबन्धः-सन्तानभावेन प्रवृत्तिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः ।
'अत्थि ण' मित्यादि, अत्र दुष्टा- जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः सत्वा उन्दरशलभप्रमुखा ईतय इत्यर्थः कुलरोगग्रामरोगमण्डलरोगा यथोत्तरं बहुस्थानव्यापिनः, 'पोट्ट' त्ति देश्यत्वाद् उदरं शीर्ष - मस्तकं तद्वेदना कर्णोष्ठाक्षिनखदन्तवेदनाः कण्ठ्याः, कासश्वासौ व्यक्तौ, शोषः - क्षयरोगः दाहः स्पष्टः अर्शो-गुदाङ्कुरः अजीर्णं व्यक्तं दकोदरं-जलोदरं पाण्डुरोगभगन्दरौ प्रतीतौएकाहिकोयो ज्वर एकादिनाऽन्तरित आयाति, एवं द्विदिनान्तरितो व्याहिकः त्रिभिर्दिनैरन्तरितस्त्रयाहिकः चतुर्थेन दिनेनान्तरितश्चतुर्थाहिकः इन्द्रग्रहादयस्तु उन्मत्तताहेतवो व्यन्तरादिदेवकृतोपद्रवाः धनुर्ग्रहःसम्प्रदायगम्यः यावत्करणान्नगरमारिप्रभृतिपरिग्रहः, प्राणिक्षयो- गवादिक्षयः जनक्षयो मनुष्यक्षयो कुलक्षयो- वंशक्षयः, एते च कथम्भूता इत्याह-व्यसनभूता-जनानामापद्भूताः अनार्या पापात्मकाः, अत्र विभक्तिलोपमकीरागमौ प्राकृतत्वात् ।
अत्राह - नेत्यादि, व्यपगतो रोगः- चिरस्थायी कुष्ठादिरातङ्कः- आशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! अथैषां भवस्थितिं पृच्छति ।
मू (३८) तीसे णं भंते! समाए भारहे वासे मणुआणं केवइअं कालं ठिई पन्नत्ता ?, गोअमा ! जहण्णेणं देसूणाई तिण्णि पलिओवमाइं उक्कोसेणं देसूणाई तिण्णि पलिओवमाई, तीसे णं भंते! समाए भारहे वासे मणुआणं सरीरा केवइअं उच्चत्तेणं प० गो० जहन्नेणं तिन्नि गाउआई उक्कोसेणं तिन्नि गाउआई ।
ते णं भंते! मणुआ किंसंधयणी प० ?, गो० ! वइरोसभणारायसंघयणी प०, तेसि णं भंते! मणुआणं सरीरा किंसंठिआ प० ?, गो० ! समचउरंससंठाणसंठिआ, तेसि णं मणुआणं बेच्छप्पण्णा पिट्ठकरंडयसया प० सम० ! |
ते णं भंते! मणुआ कालमासे कालं किच्चा कहिं गच्छन्ति कहिं उववज्जंति ?, गो० ! छम्मासावसेसाउआ जुअलगं पसवंति, एगूणपन्नं राइंदिआईं सारक्खंति संगोवेति २ त्ता कासित्ता छीइत्ता जंभात्ता अक्कि ट्ठा अव्वहिआ अपरिआविआ कालमासे कालं किच्चा देवलोएसु उववज्रंति, देवलो अपरिग्गहाणं ते मणुआ पन्नत्ता ।
तीसे णं भंते! सभाए भरहे वासे कइविहा मणुस्सा अणुसज्जित्था ?, गो० ! छव्विहा पं०, तं०-पम्हगंधा १ मिअगंधा २ अममा ३ तेअतली ४ सहा ५ सणिचारी ६ ।
वृ- प्रायः कण्ठ्यं सूत्रमेतत्, नवरं देशोनानि त्रीणि पल्योपमानि स्थितिर्युग्मिनीं प्रतीत्य मन्तव्या, देशश्चात्र पल्योपमासङ्घयेयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरूत्तरकुरुस्त्रयमधिकृत्य - "देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते! केवइअं कालं ठिई प० ?, गो० ! देसूणाई तिन्नि पलि ओवमाइं पलि ओवमस्स असंखेज्जइभागेणं ऊणगाई, उक्कोसेणं तिन्नि पलि०” अथावगाहनां पृच्छन्नाह-'तीसे णं' सुगमं, नवरं देशोनास्त्रयः क्रोशा अपि युग्मिनीं प्रतीत्य "उच्चत्तेणं नराण धोवोणमूसिआओ' वचनात् यद्यपि 'छधनुसहस्समूसिआओ' इति पूर्वसूत्रणैतेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org