________________
१२४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ३७
यवविशेषाः 'कल’त्ति कलायास्त्रीपुटाख्या वृत्तचणका वा मसूरा-मालवादिदेशप्रसिद्धा धान्यविशेषा मुदगमापतिलाः कुलत्थाः- चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-वल्लाः 'आलिसंदग' त्ति चपलकाः अलसी-धान्यं यस्य तैलं असलीतैलमिति प्रतीतं 'कुसुंभ'त्ति लट्टाकाणाः यत्पुष्पैर्वस्त्रदिरागः समुत्पाद्यते कोद्रवाः प्रतीताः कङ्गवः पीततण्डुलाः 'बरग' त्ति बरट्टी धान्यविशेषः सपादलक्षादिषु प्रसिद्धः रालकः-कड्गुविशेष एव स चायं (विशेषः) बृहच्छिराः कङ्गुरल्पशिरा रालकः, शणंत्वकप्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः मूलकं- शाकविशेषः तस्य बीजानि, प्राकृतत्वात् ककारलोपसन्धिभ्यां निष्पत्ति, अत्रोत्तरम् - सन्ति, न च तेषां मनुजानां परिभोग्यतया कदाचिदायान्ति कल्पद्रुमपुष्पफलाद्याहारकत्वात्तेषामिति ।
'अत्थि ण' मित्यादि, अत्र गर्ता - महती खड्डा दरी - मूषिकादिकृता लध्वी खड्डा अवपानःप्रपातस्थानं यत्र चलन् जनः सप्रकाशेऽपि पतति प्रपातो भृगुर्यत्र जनः काञ्चित् कामनां कृत्वा प्रपतति विषमं दुरारोहावरोहस्थानं विज्जलं-स्निग्धकर्द्दमाविलस्थानं यत्र जनोऽतर्कित एव पतति, नायमर्थः समर्थः, न सन्तीत्यर्थः, भरतवर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः 'से जहानामए' इत्यादि वर्णकः प्राग्वद् ज्ञेयः । 'अत्थिण' मित्यादि, अत्र स्थालुः ऊर्ध्वकाष्ठं कण्टकः- स्पष्ट तृणान्येव कचवरः पत्राण्येव कचवरः, अत्राह - 'ने' त्यादि, यतो व्यपगतस्थाणुयावत्पत्रकचवरासा- सुषमसुषमा नाम्नी सभा - अरकः प्रज्ञप्ता । 'अत्थि ण' मित्यादि, अत्र दंशमशकयूकालिक्षाः स्पष्टाः ढिकुणामत्कुणाः यदाहुः श्रीहेमसूरयो देश्यां- "मक्कुणए ढिंकुण खंडुणा तहा ढंकणी पिहाणीए" इति, पिशुका:- चञ्चटाः, अत्राचार्य व्यपगतदंशमशकयूकालिक्षा तथा ढिंकुणापिशुकोपद्रवविरहिता, पश्चात् कर्मधारयः, सा समा प्रज्ञप्ता, अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानकरणे प्रसुतमूलादर्श विरहिअत्ति पदं प्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्वतो व्यपगतपदेनैवोक्तत्वात् ।
'अत्थिण' मित्यादि, अत्र अहयः - सामान्यतः सर्पाः अजगराः-महाकायसर्पाः शेषं पूर्ववत्, यतः प्रकृतिभद्रकास्ते व्यालगणाः सरिसृपजातीयगणा - प्रज्ञप्ता इति । अत्र ग्रहयुद्धसूत्रं जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायामप्यलेखि । 'अत्थि ण'मित्यादि, अत्र डिम्बडमरौ पूर्ववत्, कलहो - वचनराटि बोलो - बहूनामार्त्तानामव्यक्ताक्षरध्वनिकः कलकलः क्षारः-परस्परंमत्सरः वैरं-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः महायुद्धानि-व्यवस्थाहीना महारणाः महासङ्ग्रामाःचक्रादिव्यूहरचनोपेततया सव्यवस्था महारमाः महाशस्त्राणि - नागबाणादीनि तेषां निपतनानि - हिंसाबुध्धा रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात्, तथाहि-नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सङ्क्रान्ता नागमूर्तीभूय पाशत्वमश्नुवते, तामसबाणास्तु सकलरणोर्व्वव्यापिमहान्धतमसरूपतया पवनबाणाश्च तथाविधपवनस्वरूपतया वह्निबाणाश्च ताशवह्निप्रकारेण परिणताः प्रतिवैरिवाहिनीषु विघ्नोत्पादका भवन्ति एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्तं च
119 11
“चित्रं श्रेणिक ! ते बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्त्तयः ॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते, यथाचिन्तितमूर्त्तयः ॥
For Private & Personal Use Only
॥२॥
Jain Education International
.
www.jainelibrary.org