________________
वक्षस्कारः - २
गोयमा ! नो इणट्टे समट्टे, ववगयवेराणुबंधा णं ते मणुआ पन्नत्ता ।
अत्थि णं भंते! भर हे वासे दुब्भू आणि वा कुलरोगाइ वा गाम० मंडल ० पोट्ट० सीसवअणाइ या कण्णो अच्छिणहदंत वे अणाइ वा कासाइ वा सासाइ वा सोसाइ वा दाहाइ वा अरिसाइ वा अजीरगाइ वा दओदराइ वा पंडुरोगाइ वा भगंदराइ वा एगाहिआइ वा बेआहि आइ वा तेआहिआइ वा उत्थाहिआइ वाइंदग्गहाइ वा धनुग्ग० खंदग्ग० कुमारग्ग० जक्खग्ग० भूअग्ग० मच्छसूलाइ वा हिअयसूलाइ वा पोट्ट० कुच्छि० जोणिसूलाइ वा गाममारीइ वा जाव सण्णिवेसमारीइ वा पाणिक्खया जणक्खया कुलक्खया वसणब्भूअमणारिआ ?, गो० ! नो इणट्टे समट्टे, बवगयरोगायका णं ते मणुआ ।
वृ 'अस्थि णमित्यादि, अस्तीत्यस्य त्यादिप्रतिरूपकाव्ययस्य वचनत्रयसध्शरूपत्वेन सन्तीति व्याख्येयं सन्ति भदन्त ! यस्यां समायां भरतवर्षे गेहानि वा प्रतीतानि गेहेषु आयतनानि वा उपभोगार्थमागमनानित उत्तरसूत्रं तु प्राग्वत्, एतेन तदा मनुष्यादिप्रयोगजन्यगृहाभावस्तत एवतेषामुपभोगार्थं तत्रापतनाभावश्चोक्त इति ।
'अत्थि णं भंते! तीसे' इत्यादि, उक्तवक्ष्यमाणेषु एषु, युग्मिसूत्रेषु प्रश्नोत्तरालापकयोक्योर्योजना प्राग्वत्, नवरं ग्रामा वृत्यावृताः कराणां गम्या वा यावत्करणान्नगरादिपरिग्रहः, तत्र नगराणि चतुर्गोपुरोद्भासीनि न विद्यते करो येषु तानि नकराणि वा कररहितानि, नखादननिपातनाद्रूपसिद्धि, निगमाः प्रभूतवणिग्वर्गावासाः, प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि वा खेटानि, क्षुल्लकप्राकारवेषिटातनि जलस्थलपथयक्तानि रत्नयोनिभूतानि वा, सिन्धुवेलावलयितानि द्रोणमुखानि, आकराः - हिरण्याकरादयः, आश्रमाः तापसाश्रयाः, सम्बाधाःशैलश्र ङ्गस्थायिनो निवासाः यात्रामागतप्रभूतजननिवेशा वा, राजधान्यो यत्र नगरे पत्तने अन्यत्र वा स्वयं राजा वसति, सत्रिवेशा-यत्र सार्थकटकादेरावासा भवन्ति ?
१२१
अत्रोत्तरं - नायमर्थः समर्थः, अत्रार्थे विशेषणद्वारा हेतुमाह-यथेप्सितं - इच्छामनतिक्रम्य कामं - अत्यर्थं गामिनी- गमनशीलास्ते मनुजाः, अत्रात्यर्थकथनेन तेषां सर्वदापि स्वातन्द्रयमुक्तं, ग्रामनगरादिव्यवस्थायां तु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्, जीवाभिगमे तु 'जहेच्छिअकामगामिणो' इत्यत्य स्थाने 'जं नेच्छिअकामगामिणो' इति पाठः, तत्रायमर्थः यद्यस्माप्तिकामगामिनः न इच्छितं - इच्छाविषयीकृतं नेच्छितं, नायं नञ् किन्तु नशब्द इत्यनादेशाभावः, यथा 'नैके द्वेषस्य पर्याया' इत्यत्र, नेच्छितं - इच्छाया अविषयीकृतं कामं स्वेच्छया गच्छन्तीत्येवंशीला नेच्छित कामगामिनस्ते मनुजा इति, यद्यपि गृहसूत्रेणैवार्थापत्या ग्रामाद्यभावः सूचितस्तथाप्यव्युत्पन्नविनेयजनव्युत्पत्यर्थमेतत्सूत्रोपन्यासः ।
'अस्थि 'मित्यादि, अत्रासि खड्गः यमुपजीव्य जनः सुखवृत्तिको भवति यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते, एवमग्रेतनविशेषणेष्वपि यथायोगं ज्ञेयं, मषी यदुपजीवनेन लेखककला, कृषि कर्षणं वणिक्-पण्यावः पणितं-क्रयाणकं वाणिज्यंसत्यानृतमर्पणग्रहणादिषु न्यूनाधिकाद्यर्पणमित्यर्थ ?, नायमर्थः समर्थः, यतस्ते व्यपगतानि असिमषीकृषिवणिक्पणितवाणिज्यनि येभ्यस्ते तथा मनुजाः प्रज्ञप्ता इति ।
'अत्थि णमित्यादि, हिरण्यं रूप्यमघटित सुवर्णं वा सुवर्णं घटितं कांस्यं प्रतीतं दूष्यं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International