________________
१२२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ३७
वस्त्रजाति मणि-चन्द्रकान्तादि मौक्तिकं व्यक्तं शङ्खो -दक्षिणावर्त्तादि शिला - गन्धपेषणादिका प्रवालं- ' प्रतीतं रक्तरत्नानि - पद्मरागादीनि स्वापतेयं रजतसुवर्णादिद्रव्यं, ननु यदि हिरण्यं रूप्यं तदा रूप्यखानी तत्सम्भवः यदि चाघटितसुवर्णं तदा सुवर्णखानी परं घटितं सुवर्ण तथा ताम्रत्रपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवं दूष्यं तत्र कथं सम्भवेयुः ?, शिल्पिप्रयोगजन्यत्वत् तेषां, न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि सम्भवतीति वाच्यं, सादिसपर्यवसितप्रयोगबन्धस्यासङ्घयेयकालस्थितेरसम्भवात्, एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात्, उच्यते, संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हव्वमिति - कदाचिदागच्छति । 'अत्थिण’मित्यादि, अस्ति राजा इति वा चक्रवत्यार्दि युवराजो (वा) राज्यार्ह इतियावत् ईश्वरो-भोगिकादि अणिमाद्यष्टविधैश्वर्ययुक्तो वा तलवरः सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्क तशिरस्कचरादिशुद्धयधिकारी माडम्बिकः -पूर्वोक्तमडम्बाधिपः कौटुम्बिकः कतिपयकुटुम्बप्रभुः इभ्योयद्रव्यनिचयान्तरितो हस्त्यपि न द्दश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमर्हतीति निरुक्तादिभ्यः, श्रेष्ठीश्रीदेवताध्यासितसौवर्णपट्टालङ्क तशिराः पुरज्येष्ठो वणिगविशेषः, सेनापति-यदायत्ता नृपेण चतुरङ्गसेना कृता भवति, सार्थवाहो-यो गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति ?, अत्रोत्तरम् - नायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वर्यं सत्कारश्च -सेव्यतालक्षणो येभ्यस्ते तथा
'अत्थि ण'मित्यादि, दास - आमरणं करयक्रीतः गृहदासीपुत्रो वा प्रेष्यः प्रेषणार्हो जनो दूतादि शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भूतको नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको द्वितीयाद्यराग्राही, कर्मकरः - छगणपुञ्जद्यपनेता, अत्राह - नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्यं - आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये “व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" इत्यनेनैकस्य यकारस्य लोप इति । 'अत्थि णमित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या भोग्या जन्यः पुत्रः जन्या स्त्र दुहिता स्नुषा-पुत्रवधूः, भग०हन्तेत्यादि, नैव चः पुनररथे तेषा मनुजानां तीव्रं उत्कटं प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्षु कुटुम्बमनुष्येषु स्नुषासम्बन्धी यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी ?, उच्यते, कुबेरदत्तकुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अत्थि णं०', अरिसामान्यतः शत्रु वैरिको-जातिनिबद्धवैरोपेतः घातको-योऽन्येन घातयति वधकः स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः- कार्योपधातकः प्रत्यमित्रो यः पूर्वं मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा ?, नायमिति, यतो व्यपगतो वैरज्योऽनुशयः - पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति ।
'अत्थिण' मित्यादि, अत्र मित्रं- स्नेहास्पदं वयस्यः समानवयाः गाढतरस्नेहास्पदं ज्ञातकःस्वज्ञातीयः यद्वा ज्ञातकः संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिक:- सहचारी सखासमानखादनपानो गाढतमस्नेहास्पदं सुहदमित्रमेव सकलकालभव्यभिचारि हितोपदेशदायि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org