________________
११८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३५ पल्हायणिज्जे, भवे एआरूवे ?, नो इणमढे समढे।
तेसिणं पुष्फफलाणं एत्तो इतराए चेव जाव आसाए पन्नत्ते।
वृतेषां भदन्त ! मनुजानां 'केवइकालस्स'त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थ समुत्पद्यते-आहारलक्षणं प्रयोजनमुपतिष्ठते?, भगवानाह-हे गौतम! अष्टमभक्तस्य, अत्रापिसप्तम्यर्थेषष्ठी, अष्टमभक्तेऽतिक्रान्तेआहारार्थसमुत्पद्यतेइति, यद्यपि सरसाहारि-त्वेनैतावत्कालं तेषांक्षुद्वेदनीयोदयाभावात्स्वत एवाभक्तार्थतान निर्जराईतपः तथाप्यभक्तार्थत्वसाधम्यार्दष्टमभक्तइति, अष्टमभक्तंचोपवासत्रयस्यसंज्ञाइति, अर्थतेयदाहारयन्तितदाह- 'पुढवीपुप्फे’त्यादि, पृथिवी-भूमिफलानि च-कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत्। अथानयो राहायो मध्ये पृथिवी स्वरूपं पृच्छन्नाह-'तीसेण मित्यादि, तस्याः पृथिव्याः कीशआस्वादः प्रज्ञप्तो, यो युगलधर्मिणा-मनन्तरपूर्वसूत्रेआहारत्वेनोक्त इत्यध्याहार्य, भगवानाह-गौतम! तद्यथा नाम ए इत्यादि प्राग्वत्, गुडः-इक्षुरसक्काथ इति, इतिवाशब्दौ प्राग्वत्, खण्डं-गुडविकारःशर्करा-काशादिप्रभवामत्स्यंडिका-खण्डशर्कराः पुष्पोत्तरापद्मोत्तरेशर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टेषु नामसु एताद्दशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह-भवेदेतद्रूपः पृथिव्याआस्वादः?, स्वाम्याह-गौतम! नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव,स्वार्थेकप्रत्ययः, यावत्करणात्कान्त-तरिकाचैव प्रियतरिकाचैवेतिपरिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञप्ता इति,
अथ पुष्पफलानामास्वादं पृच्छन्नाह- 'तेसि णं०' तेषां-पुष्पफलानां कल्पद्रुसम्बन्धिनां कीशः-क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानी गम्यं, भगवानाहगौ० ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह-चतुव॑न्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलमस्येति चतुरन्तचक्रवर्ती, 'अः समृध्यादौ वे' त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्ति कृता, तस्य कल्याणं-एकान्तसुखावहं भोजनजातंभोजनविशेषः शतसहस्रनिष्पन्नं- वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यमोजनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं?, युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं-अग्निवृद्धिकरं दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं-मदनीयं-मन्मथजनकत्वात्यृहणीयंधातूपचयकारित्वात्, सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां ।
एवमुक्तो गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः?, भगवानाहगौतम! नायमर्थः समर्थः, तेषांपुष्पफलानामितः-चक्रवर्तिभोजनादिष्टतरकादिरेवास्वादः, अत्र कल्याणभोजने सम्प्रदाय एवं-चक्रवर्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमेण पीतगोक्षीरस्यपर्यन्तेयावदेकस्याः गोः सम्बन्धियत्क्षीरंतद्राद्धकलमशालिपरमान्नरूपमनेकसंस्कारकद्रव्यसम्मिश्रंकल्याणमोजनमितिप्रसिद्धं, चक्रिणंस्त्ररत्नंच विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥अथैते उक्तस्वरूपमाहारमाहार्य क्व वसन्तीति पृच्छति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only