________________
११६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ३४
तेषां मनुष्याणामिति, तथा स्वभावत एव श्रङ्गाररूपश्चारु-प्रधानो वेषो यासां तास्तथा, प्रायो निर्विकारमनस्कत्वेनाद्दष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाद्यौपाधिकश्र ङ्गाराभावात्, सड्गतंउचितं गतं गमनं हंसीगमनवत् हसितं -हसनं कपोलविकाशि प्रेमसन्दर्शि च भणितं भणनं गम्भीरं दर्पकोद्दीपि च चेष्टनं-सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादि विलासो-नेत्रचेष्टा संलापः पत्या सह सकामं स्वहदयप्रत्यर्पणक्षमं परस्परं सम्भाषणं तत्र निपुणाः, तथा युक्ताः सङ्गता ये उपचारालोकव्यवहारास्तेषु कुशलाः, ततः पतद्वयस्य कर्मधारयः ।
एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या नतु परपुरुषं प्रति, तथाविधकालस्वभावात् प्रतनुकामतया परपुरुषं प्रति तासामभिलाषासम्भवात्, एवं च युग्मिपुरुषाणामपि परस्त्र प्रति नाभिलाष इति प्रतिपत्तव्यं, नन्वेवं सति प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं ? मृतेऽपि पुंसि तस्याः परसम्बन्धित्वाविरोधात् उच्यते, मा ब्रूहि निषिद्धविरुद्धाचरणस्य भगवतः श्रवणाश्रव्यमेनमपवादं, कन्यावस्थाया एव तस्या भगवता पाणिग्रहणकरणात्, यतः"पढमो 'अकालमच्चू तहिं तालफलेण दारओ पहओ । कण्णा य कुलगरेणं सिट्टे गहिआ उसभपत्ती ।।"
119 11
एवं तर्हि सहजातायाः सुमङ्गलायाः पाणिग्रहणं कथं ?, सत्यं, तदानीन्तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति, पूर्वोक्तमेवार्थं सम्पिण्ड्याह- 'सुंदरे 'त्यादि व्यक्तमेव, नवरं जघनंपूर्वकटीभागः, लावण्यं-आकारस्य स्पृहणीयता विलासः स्त्रणां चेष्टाविशेषः, आह च“स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
|| 9 ||
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥”
नन्दनवनं-मेरोर्द्वितीयवनं तस्य विवरं अवकाशो वृक्षरहितभूभागस्तत्र चारिण्य इवाप्सरसोदेव्यः भरतवर्षे मानुषरपा अप्सरसः आश्चर्यं अद्भूतमिति प्रेक्षणीयाः प्रासादीया इत्यादि । सम्प्रति स्त्रपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह-'ते णं मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः अधः-प्रवाही स्वरो येषां ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दी - द्वादशविध- तूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषं ते तथा, नन्द्या इव घोषः - अनुनादो येषां ते तथा, सिंहस्येव बलिष्टः स्वरो येषां ते तथा, एवं सिंहघोषाः, उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टेसुस्वराः सुस्वरनिर्घोषाः, छायया-प्रभया द्योतितान्यङ्गानि - अवयवा यस्य तदेवंविधमगं-शरीरं येषां ते तथा, मकारोऽलाक्षणिकः, वज्रऋषभनाराचं नाम सर्वोत्कृष्टाद्यं संहननं येषां ते तथा, सम चतुरन संस्थानं सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताः छव्यां त्वचि निरातङ्काः - नीरोगाः दद्रुकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्तः, छविच्छविमतोरभेदोष- चाराद् दीर्घत्वेन मतुब्लोपाद्वा, यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्ता इत्यर्थः, पश्चान्निरातङ्कपदेन कर्मधारयः, अनुलोमः - अनुकूलो वायुवेगः शरीरान्तर्वर्त्ती वातजवो येषां ते तथा ।
कपोतस्य इव गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्कः-पक्षिविशेषस्तस्येव ग्रहणी - गुदाशयो नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येवपक्षिविशेषस्येव परिणामः- आहारपरिपाको येषां ते तथा, कपोतस्य हि जाठराग्नि पाषाणलवानपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org