________________
११२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ३४
शुचयः - पवित्रा रुचिरा- मनोज्ञाः स्निग्धा - अरूक्षा नखा येषां ते तथा, नखशब्दे द्विर्भावस्तु प्राग्वत्, चन्द्र इव चन्द्रकारा पाणिरेखा येषां ते तथा, 'दिसासोवत्थिअ'त्ति दिकसौवस्तिको-दिकप्रोक्षकः दिकप्रधानः स्वस्तिको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते तथा, एतदेवानन्तरोक्तविशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय आह
'चंदसूरे' ति गतार्थ, ननु इयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह- अनेकैः प्रभूतैर्वर:प्रधानैर्लक्षणैरुत्तमाः प्रशंसास्पदीभूताः शुचयः पवित्राः रचिताः स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा, वरमहिषः- स्वप्रमाणेनाहीनो विपुलो- विस्तीर्ण स्कन्धः - अंसदेशो येषां ते तथा, चतुरड्गुलंस्वाङ्गापेक्षया चतुरङ्गुलप्रमितं सुष्ठु शोभनं प्रमाणं यस्याः सा तथा, कम्बूवरसध्शी - उन्नततया वलित्रययोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते तथा, विवेकविलासे तु प्रतिमाया एकादशाङ्गस्थानसङ्ख्यायां 'चतुःपञ्च चतुर्वह्नि' इति श्लोके ग्रीवायास्त्रयड्गुलं मानमिति, मांसलंपुष्टं तथा संस्थितं - संस्तानं तेन प्रशस्तं सङ्कुचितं कमलाकारत्वात् शार्दूलस्येव-व्याघ्रस्येव विपुलंविस्तीर्णं हनुकं येषां ते तथा, अवस्थितानि अवर्धिष्णूनि सुविभक्तानि परस्परं शोभमानविभागानि न तु पुनर्मरुजाताभीरस्येव व्यादानमात्रलक्ष्यवदनविवरस्य कूर्चकेशपुञ्ज इव पुञ्जीभूतानि चित्राणि - अतिरम्यतयाऽद्भुतानि श्मश्रूणि कूर्चकेशा येषां ते तथा, श्मश्रूणामभावे षण्डभावप्रतिपत्ति हीयमानत्वे चैन्द्रलुप्तिकत्वावार्द्धकप्रतिपत्ति वर्द्धमानत्वे चसंस्कारकजनाभावाद्गहनभूतानि तानि स्युरित्यवस्थितत्वं, 'उअविअ'त्ति परिकर्मितं यच्छिलारूपं प्रवालं आयतविद्रुमखण्डमित्यर्थः ।
न तु मणिकादिरूपं, तस्यैतदुपमानानुपपत्तेः विम्बफलं-पक्वगोल्हाफलं तयोः सन्निभो रक्तयोन्नतमध्यतया अधरोष्ठः - अधस्तनो दन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलंचन्द्रमण्डलखण्डं अकलङ्कश्चन्द्रमण्डलभाग इत्यर्थ विमलानां मध्ये निर्मलश्च यः शङ्खो गोक्षीरफेनश्च प्रतीतः कुन्दं च कुन्दकुसुमं दकरजश्च वाताहतजलकमः मृणालिका च पद्मिनीमूलं तद्वद्धवला दन्तश्रेणी -दशनपङ्किर्येषां ते तथा, अखण्डदन्ताः परिपूर्णदशनाः अस्फुटितदन्ताः - अजर्जरदन्ताः अत एव सुजातदन्ताः-जन्मदोषरहितदन्ता अविरलदन्ता- निरन्तरालदन्ताः, एकाकारा दन्तश्रेणिर्येषां ते तथा त इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके द्वात्रिंशद्दन्ता येषां ते तथा, एवं नाम तेऽविरलदन्ता यथाऽनेकदन्ता अपि सन्तः एकाकारपङ्कतयः इव लक्ष्यन्ते इति भावः, हुतवहेनअग्निना निर्ध्यातं-निर्दग्धं सत् धौतं-शोधितमलं तप्तं सतापं तपनीयं सुवर्णविशेषस्तद्वद्रक्ततलंलोहितरूपं तालु च-काकुदं जिह्वा च रसना येषा ते तथा, गरुडस्येव - पक्षिराजस्येवायता-दीर्घा ऋज्वी-सरला तुड्गा-उन्नता न तु मुद्गलजातीयस्येव चिपिटा नासा-नासिका येषां ते तथा ।
अवदालितरविकरैर्विकासितं यत्पुण्डरीकं श्वेतं पद्मं तद्वन्नयने येषां ते तथा, 'कोसाइअ' त्ति विकासे: को आसविसट्टा' वित्यनेन कोआसिते विकसिते धवले च क्वचिद्देशे पतरले -पक्ष्मवती अक्षिणी-नेत्रे येषां ते तथा, आनामितं - ईषन्नामितमारोपितमिति भावः यश्चापं धनुस्तद्वगुचिरेसंस्थानविशेषभावतो रमणीये कृष्णाभ्रराजीव संस्थिते सङ्गते यथोक्तप्रमाणोपपन्ने आयते-दीर्घे सुजाते- सुनिष्पन्ने तनू-तनुके श्लक्ष्णपरिमितवालपंक्यात्मकत्वात् कृष्णे-कालिमोपेते स्निग्धच्छाये भ्रुवौ येषां ते तथा, आलीनौ मस्तकभित्तौ किञ्चिल्लग्नौ न तु टप्परौ प्रमाणयुक्तौ स्वप्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते तथा अत एव सुश्रवणा इति स्पष्टं, अथवा सुष्ठु श्रवणं शब्दोपलम्भो येषां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org