________________
१०४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३३ तत्प्रेक्षागृहंविचित्रं-नानाचित्रोपेतमतएवरम्यं-रमयतिद्रष्टणांमनांसीतिबाहुलकात्कर्तरियप्रत्ययः, किंविशिष्ट इत्याह-वरकुसुमदाम्नां मालाःश्रेणयस्ताभिरुज्वलं देदीप्यमानत्वात्, तथा भास्वान्विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुओपचारस्तेन कलितं ।
तथा विरल्लितानि तनूयी विस्तारे' इत्यस्य तनेस्तडतडतडवविरल्ला' इत्यनेन विरल्लादेशे कृते क्तप्रत्यये च विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि-ग्रथितपुष्पमालास्तेषा यः श्रीसमुदयः-शोभाप्रकर्षस्तेन प्रगल्भं-अतीव परिपुष्टं, तथा ग्रंथिम-यत्सूत्रेण ग्रथितं वेष्टिमंयत् पुष्पमुकुटमिवोपर्युपरिशिखराकृत्या मालास्थापनं पूरिमं यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं-यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारद्वन्द्वे एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलवता विभागरचितेन-विभक्तिपूर्वकंकलुप्तेन यद्यत्र योग्यंग्रन्थिमादि तत्र तेन सर्वतः-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैर्लम्बमानैः, तत्र प्रविरलत्वं मनागप्यसंहतत्वमात्रेण भवतिततो विप्रकृष्टत्वप्रतिपादनायाह-विप्रकृष्टैः बृहदन्तरालैः पञ्चवर्णे, ततःकर्मधारयः, कुसुमदामभिशोभोमान, वनमाला-वन्दनमालाकृताऽग्रे-अग्रभागेयस्य तत्तथा, तथाभूतं सद्दीप्यमानं, तथैव चित्राङ्गा अपिनामद्रुमगणाअनेकबहुविधविविधविनसापरिणतेन माल्यविधिनोपपेताः, 'कुसविकुसविसुद्धमुला' इत्यादि प्राग्वत्।।
अथ सप्तमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ बहवे तहिं २ चित्तरसा नामं दुमगणा पण्णत्ता समणाउसो ! जहा से सुगंधवरकमलसालितंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयधयगुडखंडमहुमेलिए अइरसे परमण्णे होज्जा उत्तमवण्णगंधमंते अहवारण्णो चक्कवट्टिस्स होज णिउणेहिंसूवपुरिसेहिं सज्जिएचउकप्पसेअसित्तेइव ओदणे कलमसालिणिव्वत्तिए विप्पमुक्के सबप्फमिउविसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्खुवक्खडे सुसक्खए वण्णगंधरसफरिसजुत्तबलवीरिअपरिणामे इंदिअवलपुढिविवद्धणे खुप्पिवासामहणे पहाणंगुलकढिअखंडमच्छंडिघउवणीएव्व मोअगे सहसमिइगब्बे हवेज परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगमा अणेगबहुविहविविहवीससापरिणयाए मोअणविहीए उववेआ कुसविकुसजाव चिटुंती ति, तस्यां समायामित्यादि योजना प्राग्वत् । नवरं चित्रोमधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयितृणामाश्चर्यकारीवारसोयेषांतेतथा, यथावत्परमानंपायसं भवेदिति सम्बन्धः, ये सुगन्धाः-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वराः-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसम्पादितात्मलाभाइति भावः, कलमशालेः-शालिविशेषस्यतन्दुला-निस्त्वचितकणाः यच्च विशिष्टं-विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्वं, परमकलमसालिभि परमदुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा शारदघृतं गुडः खण्डंमधुवाशर्करापरपर्याय मेलितंयत्रतत्तथा, क्तान्तस्यपरनिपातःप्राकृतत्वात्सुखादिदर्शनाद्वा, अतएवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्चक्रवर्तिनः ओदन इव भवेदित्यन्वयः, निपुणैः सूपपुरुषैः-सूपकारैः सज्जितो-निष्पादितःचत्वारः कल्पा यत्र सचासौ सेकश्च चतुष्कल्पसेकस्तेन सिक्तः, रसवतीशास्त्रभिज्ञा हिओदनेषु सौकुमार्योत्पादनायसेकविषयांश्चतुरः कल्पा विदधति, स च ओदनः किंविशिष्ट ? कलमशालिनिर्वर्तितः कलमशालिमय इत्यर्थः, विपको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org