________________
वक्षस्कारः - २
विशिष्टपरिपाकमागतः सबाष्पानि - बाष्पं मुञ्चन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्म्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि पूर्णानि सित्थानि यत्र स तथा, अनेकानि शालनकानि-पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदितिपरिपूर्णानि समस्तानि द्रव्याणि एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्धरसस्पर्शा सामथ्यादतिशायिनस्तैर्युक्ता बलवीर्यहतवश्च परिणामा आयतिकाले यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपेता इति भावः, तत्र बलं - शारीरं वीर्यं - आन्तरोत्साहः, तथा इन्द्रियाणां चक्षुरादीनां बलं स्वस्वविषयग्रहणपाटवं तस्य पुष्टि- अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादन:, तथा क्षुत्पिपासामथन इति व्यक्तं, तथा प्रधानः कथितो निष्पको गुडस्ताशं वा खण्डं ताध्शी वा मत्स्यण्डी-खण्डशर्करा ताध्शं वा घृतं तान्युपनीतानि - योजितानि यस्मिन् स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, तथा श्लक्ष्णासूक्ष्मत्रिर्वस्त्रगालितत्वेन समिता-गोधूमं चूर्णं तद्गर्भः- तन्मूलदलनिष्पन्न इति भावः, परमेष्टकं - अत्यन्तवल्लभं तदुपयोगि द्रव्यं तेन संयुक्तः, एतद्वयक्ति सम्प्रदायगम्या, तथैव ते चित्ररसाअपि द्रुमगणाः अनेकबहुविधविधविनसापरिणतेन भोजनविधिनोपपेता इत्यादि प्राग्वत् ।
अथाष्टमकल्पवृक्षस्वरूपमाह- 'तीसे णं समाए तत्थ २ बहवे मणिअंगा नामं दुभगणा पन्नत्ता समणाउसो !, जहा से हारद्धहारवेढणयमउडकुंडलवामुत्तगहेमजालमणिजालकणगजालसुत्तगउचिअकडगखुड्डयएकावलिकंठसुत्तगमगरिअउरत्थगेवि ज्जसोणिसुत्तगचूलामणिकणगतिलगफुल्लगसिद्धत्थयकण्णवासिलसिसूरउसहचक्कगतलभंगयतुडि अहत्यमालगहरिसयकेऊ रलयपालंव अंगुलिज्जगव लक्खदीणारमालि आकंचिमेहलकलाव पयरगपारिहेरगपाय जालघंटिआखिंखिणि रयणोरुजालखुड्डअवर नेऊरचलणमालि - आकणगणिगलमालिआकंचणमणिरयणभत्तिचित्ता तहेवतेमणिअंगाविदुमगणा अनेगजावभूसणविहीए उववेआ जाव चिह्नंती ति तस्यां समायामित्यादि प्राग्वत्, नवरं मणिमयानि आभरणान्याधेये आधारोप - चारान्मणीनि तान्येवाङ्गानि-अवयवा येषां ते मण्यड्गा भूषणसम्पादका इत्यर्थः, यथा ते हारः - अष्टादशसरिकः अर्द्धहारो-नवसरिकः वेष्टनकः - कर्णाभरणविशेषः मुकुटकुण्डले व्यक्ते वामोत्तकः हेमजालंसच्छिद्रसुवर्णालङ्कारविशेषः एवं मणिजालकनकजालके अपि, परं कनकजालकस्य हेमजालतो भेदो रूढिगम्यः, सूत्रकं- वैकक्षककृतं सुवर्णसूत्रं उचितकटकानि-योग्यवलयानि क्षुद्रकंअड्गुलीयकविशेषः एकावलीच-विचित्रमणिककृता एकसरिका च कण्ठसूत्रं प्रसिद्धं मकरिकामकराकार आभरणविशेषः उरस्थं हदयाभरणविशेषः ग्रैवेयं - ग्रीवाभरणविशेषः ।
१०५
अत्र सामान्यविवक्षया ग्रैवेयमिति जीवाभिगमवृत्यनुसारेणोक्तं, अन्यथा हेमव्याकरणादाव-लङ्कारविवक्षायां ग्रैवेयकमिति स्यात्, एवमन्यत्रापि तत्तदवृत्यनुसारेण ज्ञेयं, श्रोणिसूत्रकं कटिसूत्रकं चूडामणिर्नाम सकलनृपरत्नसारो नरामरेन्द्रमौलिस्थायी अमड्गलामयप्रमुखदोषहत् परममड्गलभूत आभरणविशेषः कनकतिलकं ललाटाभरणं पुष्पकंपुष्पाकृति ललाटाभरणं सिद्धार्थकं सर्षपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली-कर्णोपरितनविभागभूषणविशेषः शशिसूर्यवृषभाः स्वर्णमयचन्द्रकादिरूपा आभरणविशेषाः चक्रकंचक्राकारः शिरोभूषणविशेषः तलभङ्गकं त्रुटिकानि च बाह्वाभरणा, अनयोर्विशेषस्तु आकारकृतः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-