________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/३३
यथोक्तवादनक्रियया शुद्धा - अवदाता न पुरस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः ते त्रुटितागा अपि द्रुमगणास्तथैव तथाप्रकारेण न त्वन्याध्शेन ततं-वीणादिकं विततं-पटहादिकं वनं - कांस्यतालादिकं शुषिरं वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोपेपताः, शेषं प्राग्वत् ।
१०२
अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं २ बहवे दीवसिहानामं दुमगणा पत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचक्कवालविंदे पभूयवट्टिपलित्तणेहे धणिउज्ज लिए तिमिरमद्दए कमगनिगरकुसुमिअपालिआतगवणप्पगासे कंचनमणिरयणविमलमहरिहतवणिज्जुज्ञ्जलविचित्तदंडाहिं दीविआहिं सहसा पज्जालिउस्सप्पि अनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जो अचिल्लिआहिं जालुजलयहसिआभिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अनेगबहुविविहवीससापरिणयाए उज्जअविहीए उववेआ फलेहिं पुण्णा कुसविकुस जाव चिट्टंती' ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन तत्राग्नेरभावाद्दीपशिखानामप्यसम्भवात्, योदना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये - तदवसरे नवनिधिपतेश्चक्रवर्त्तिन इव ह्रस्वा दीवा दीपिकास्तासां चक्रवालं सर्वतः परिमण्डलरूपं वृन्दं कीधगित्याह- प्रभूता भूयस्यः स्थूरा वा वर्त्तयो दशा यस्य तत्तथा पर्याप्तःपरिपूर्ण स्नेहः -तैलादिरूपो यस्य तत् तथा घनं अत्यथमुज्ज्वलितं अत एव तिमिरमर्द्दकं, पुनः किंविशिष्टमित्याह- कनकनिकरः - सुवर्णराशि कुसुमितं च तत्पारिजातकवनं च पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्तथा एतावता समुदायविशेषणमुक्तमिदानीं समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन् समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह - लोकेऽपि वक्तारो भवन्ति 'यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णे ति 'कंचने' त्यादि, दीपिकाभि शोभमानमिति सम्बन्धः, कथंभूताभिर्दीपिकाभिरत आह
काञ्चनमणिरत्नमयाः विमलाः- स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हा तपनीयंसुवर्णविशेषस्तेनोज्ज्वला - दीप्ताः विचित्रा - विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा एककालं प्रज्वालिताश्च ता उत्सर्पिताश्च वर्त्यत्सर्पणेन तथा स्निग्धं मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभि, ततः पदद्वय २ मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरोनिरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः - प्रभासमूहस्तेन चिल्लिआहिंतिदेशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितं -हासस्तेनाभिरामारमणीयास्ताभिः, अत एव शोभमानं तथैव ते दीपशिका अपि द्रुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा दीपशिखा रात्रौ गृहान्तरुदद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति, शेषं प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह- 'तीसे णं समाए तत्थ २ बहवे जोइसिआ नामं दुमगणा पन्नत्ता समणाउसो ! जहा से अइरुग्गयसरयसूरमण्डलपडंतउक्कासहस्सदिप्पंतविज्जुज्जलहुअवहणिद्धूमजलिअणिद्धंतधोअतत्ततवनिकिंसुआसोअजा सुअणकुसुमविमउलि अपुंजमणिरयण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International