SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०१ वक्षस्कारः - २ ते भिंगंगावि दुमगणा अनेगबहुविहवीससापरिणयाए भायणविहीए उववेआ फलेहिं पुण्णाविव विसट्टंती'ति तस्यां समायां तत्रेत्यादि प्राग्वत् भृतं-भरणं पूरणमित्यर्थः तत्राड्गानि-कारणानि, न हि भरणक्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः प्राकृतत्वाच्च भिंगंगा उच्चन्ते, यथा ते वारको - मरुदेशप्रसिद्धनामा माङ्गल्यघटः घटको-लघुर्घटः कलशो-महाघटः करकः प्रतीतः कर्करी - स एव विशेषः पादकाञ्चनिका-पादधावनयोग्या काञ्चनमयी पात्री उदङ्कोयेनोदकमुदच्य वार्द्धानी- गलंतिका, यद्यपि नामकोशे करककर्करीवाद्धनीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय इति, सुप्रतिष्ठकः - पुष्पपात्रविशेषः पारी-स्नेहभाण्डं चषकः-सुरापानपात्रं भृङ्गारः-कनकालुषा सरको मदिरापानं पात्रीस्थाले प्रसिद्धे दकवारके - जलघटः, विचित्राणि विविधविचित्रोपेतानि वृत्तकानि भोजनक्षणोपयोगीनि घृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि मणिवृत्तकानि शुक्ति-चन्दनाद्याधारभूता शेषा विष्टरकरोडिनल्लकचपलितावमदचारुपीनका लोकतो विशिष्टसम्प्रदायाद्वाऽवगम्याः, काञ्चनमणिरत्नानां भक्तयो - विच्छित्तयस्ताभिश्चित्रा भाजनविधयो-भाजनप्रकारा बहुप्रकारा एकैकस्मिन् विधाववान्तरानेकभेदभावात् तथैवेति पूर्ववत् ते भृताड्गा अपि द्रुमगणा 'अनेगे' ति पूर्ववत् भाजनविधिनोपपेताः फलैः पूर्णा इव विकसन्ति, अयमर्थः तेषा भाजनविधयः फलानीव शोभन्ते, अथवा इवशब्दस्य भिन्नक्रमेण योजना, तेन फलैः पूर्णा भाजनविधिना वोपपन्ना दृश्यन्ते । अथ तृतीयकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं २ बहवे तुडिअंगा नाम दुमगणा पन्नत्ता समणाउसो !, जहा से आलिंगमुइंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरम्भकणियखरमुहिमुंगुंदसंखिअपिरलीवच्च कपरिवाइणिवंसवेणुघोसविवंचिमहतिकच्छभिरिगिसिगिआतलतालकंसतालसुसं पउत्ता आतोज्जविही निउणगंधव्वसमयकुसलेहिं फंदिआ तिट्ठाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अनेगबहुविविहीससापरिणयाए ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविवि विसद्वंति, कुसविकुसजाव चिट्टंती' ति, यथा ते आलिड्गो नाम यो वादकेन मुरज आलिड्गय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदड्गो - लघुमईलः पणवो भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दर्द्दरिको यस्य चतुर्भिश्ररणैरवस्थानं भुवि स गोधाचर्मावनद्ध वाद्यविशेषः करटी- सुप्रसिद्धा डिण्डिमःप्रथमप्रस्तावनासूचकः पणवविशेषः भंगा-ढक्का निस्वानानीति सम्प्रदायः, होरंभा-महाढक्का महानिस्वानानीत्यर्थ क्वणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खिकालघुशङ्खरूपा तस्याः स्वरो मनाकू तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवञ्च्चकौ तृणरूपवाद्यविशेषौ परिवादिनी-सप्ततन्त्री वीणा वंशः प्रतीतः वेणुः वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति - तन्त्री वीणा - महती शततन्त्रिका सा कच्छपी - भारती वीणा रिगिसिगिका-घर्ष्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ । एते कथंभूता इति ?, तलं हस्तपुटं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः- सुष्ठु अतिशयेन सम्यग् यथोक्तनीत्या प्रयुक्ताःसम्बद्धाः, यद्यपि हस्तपुटं न कश्चितूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृति शब्दो लक्ष्यते, एताध्शा आंतोद्यविधयः- तूर्यप्कराराः निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिताव्यापारिता इति भावः पुनः किंविशिष्टा त्रिषु आदिमध्यावसानेषु स्थानेषु करणेन-क्रियया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy