SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ दक्षिणार्द्ध उत्कर्षकः - उत्कृष्टोऽष्टादशमुहूर्त्तप्रमा दिवसो भवति तदा उत्तरार्द्धेऽपि उत्कृष्टोऽष्टादशमुहूर्त्तप्रमाणो दिवसः, उत्कृष्टो ह्यष्टादशमुहूर्त्तप्रमाणो दिवसः सर्वाभ्यन्तरमण्डलचारित्वे, तत्र च यदैकः सूर्य सर्वाभ्यन्तरमण्डलचारी भवति तदा अपरोऽप्यवश्यं तत्समया श्रेण्या सर्वाभ्यन्तरमण्डलचारी भवतीति दक्षिणार्द्धे उत्कृष्टदिवस-सम्भवे उतरार्द्धेऽप्युत्कृष्टदिवससम्भवः, यदा उत्तरार्द्धे उत्कृष्टोऽष्टादशमुहूर्त्त प्रमाण दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य । 'पुरत्थिमपञ्च्चत्थिमे णं'ति पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहूर्त्ता रात्रिर्भवति, सर्वाभ्यन्तरे मण्डले चारं चरतोः सूर्ययोः सर्वत्रापि रात्रेर्द्वादशमुहूर्त्तप्रमाणाया एव भावात्, तया 'जया ण' मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस् पर्वतस्य पूर्वस्यां दिशि उत्कर्षकःउत्कृष्टोऽटादशमुहूर्ती दिवसो भवति तदा मन्तरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसः, कारणं दक्षिणोत्तरार्द्धगतं प्रागुक्तमनुसरणीयं, यदा च मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च जघन्या द्वादशमुहूर्त्ता रात्रि, अत्रापि कारणं पूर्वपश्चिमार्द्धरात्रिगतं प्रागुक्तमनुसरणीयं, 'एव'मित्यादि, एवम् उक्तेन प्रकारेण एतेनानन्तरोदितेन गमेन-आलापकगमेन वक्ष्यमाणमपि नेतव्यं, किं तद् वक्ष्यमाणमित्याह - 'अट्ठारसमुहुत्ताणंतर' इत्यादि, यदा मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहूर्त्तानन्तरः - सप्तदशभ्यो मुहूर्तेभ्य ऊर्ध्वं किञ्चिन्यूनाष्टादशमुहूर्तप्रमाणो दिवसः तदा पूर्वपश्चिमयोर्दक्षिणोत्तरार्द्धयोर्वा सातिरेकद्वादशमुहूर्त्ता रात्रिर्भवतीति, एवं शेषाण्यपि पदानि भावनीयानि, सूत्रपाठोऽपि प्रागुक्तालापकगमानुसारेण स्वयं परिभावनीयः, स चैवम्- 'ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे अट्ठारसमुहुत्तानंतरे दिवसे हवइ तया णं उत्तरङ्गेवि अट्ठारसमुहुत्ताणंतरेदिवसे भवइ, जया णं उत्तरढे अट्ठारसमुहुत्तानंतरे दिवसे हवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमे णं सातिरेगदुवालसमुहुत्ता राई भवइ, ता जया णं जंबुद्दवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तयाणं पञ्च्चत्थिमेणं अट्ठारसमुहुत्तानंतरे दिवसे हवइ, जयाणं पञ्च्चत्थिमेणवि अट्ठारसमुहुत्तानंतरे दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं साइरेगदुवालसमुहुत्ता राई भवइ, एवं सप्तदशमुहूर्त्तदिवसादि- प्रतिपादका अपि सूत्रालापका भाव० । 'ता जया ण' मित्यादि तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्धे वर्षाणां वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति तदा उत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्धे उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्धे वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ' पुरच्छिमपच्चत्थिमे णं' पूर्वस्यामपरस्यां च दिशि 'अनंतरपुरक्खडे ' त्ति अनन्तरं - अव्यवधानेन पुरष्कृतः - अग्रेकृतो यः सोऽनन्तरपुरस्कृतोऽनन्तरं द्वितीय इत्यर्थः, तस्मिन् 'कालसमयंसि 'त्ति समयः सङ्केतादिरपि भवति ततस्तदव्यवच्छेदार्थं कालग्रहणं, कालश्चासौ समयश्च कालसमयः, तत्र वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति, किमुक्तं भवति? –यस्मिन् समये दक्षिणार्द्धात्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवति तस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति । 'ता जया ण' तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्या पूर्वस्या दिशि वर्षाकालस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy