SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ८, प्राभृतप्राभृतं - ९७ प्रथमः समयो भवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि भवति, सर्वकालनैयत्येन पूर्वपश्चिमयोरपि सूर्ययोश्चारचरणात, यदा च पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च अनन्तरः-अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः तस्मिन् कालसमयो वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः, इह यस्मिन् समये दक्षिणार्द्ध उत्तरार्द्ध च वर्षाकालस्य प्रथमः समयो भवति तदनन्तरेअग्रेतने द्वितीयेसमयेपूर्वपश्चिमयोर्वर्षाणांप्रथमःसमयो भवतीति, एतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं ?, उच्यते, इह क्रमोत्क्रमाभ्यामभिहितोऽर्थ प्रपञ्चितज्ञानां शिष्याणमतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः। 'जहा समय' इत्यादि, यथा समय उक्तः तथा आवलिका प्राणापानौ स्तोको लवो मुहूर्तोऽहोरात्रः पक्षो मास ऋतुश्च-प्रावडादिरूपो वक्तव्यः, एवं च समयगतमालापकमादि कृत्वादशआलापका एते भवन्ति, तेच समयगतालापकरीत्या स्वयंपरिभावनीयाः, तद्यथा-'जया गंजंबुद्दीवेद्दीवेवासाणं पढमाआवलियापडिवाइतयाणं उत्तरद्धेविवासाणंपढमा आवलिया पडिवज्जइ, जया णं उत्तरड्ढे वासाणं पढमा आवलिया पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्सपुरच्छिमपच्चस्थिमेणंअणंतसुरक्खडकालसमयंसिवासाणंपढमाआवलिया पडिवाइ, ताजया णंजंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमेणंवासाणं पढमाआवलियापडिवजइ [तयाणं पञ्चत्थिमेणं पढमाआवलिया पडिवज्जइ२] तयाणंजंबुद्दीवेदीवे मंदरस्सपव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसमयंसिवासाणंपढमाआवलियापडिवन्ना भवइ' इदंचप्रागुक्तव्याख्यानुसारेण व्याख्येयं, नवरं 'आवलियापडिवाइ'त्ति आवलिका परिपूर्णा भवति, शेषं तथैव, एवं प्राणापानादिका अप्यालापका भणनीयाः । एए'इत्यादि, यथा वर्षाणां-वर्षाकालस्य एते अनन्तरोदिताः समयादिगताअत्रआलापका भणिताः ‘एवंहेमंताणं'ति शीतकालस्य, गिम्हाणं ति ग्रीष्मकालस्योष्णकालस्येत्यर्थ, प्रत्येकं समयादिगता दश दशाआलापका भणितव्याः, अयनगतं त्वालापकं साक्षात्पठति-'ता जया न मित्यादि सुगमं । ___'जहाअयणे' इत्यादि, यथाअयने आलापको भणितः तथा संवत्सरे युगे-वक्ष्यमाणस्वरूपे चन्द्रादिसंवत्सरपञ्चात्मके वर्षशते वर्षसहस्रो वर्षशतसहने पूर्वाङ्गे पूर्वे एवं 'जाव सीसपहेलिय'त्ति, एवं यावत्करणादमून्यपान्तराले पदानि द्रष्टव्यानि, 'तुडियंगे तुडिए अडडंगेअडडे अववंगेअववे हूहूयंगे हूहूये उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए नउअंगे नउए चूलियंगे चूलिए सीसपहेलियंगे' इति, अत्र चतुरशीतिवर्षलक्षाण्येकंपूर्वाङ्ग, चतुरशीतिपूर्वाङ्गलक्षाणि एकंपूर्वमेवंपूर्व पूर्वो राशिश्चतुरशीतिल१र्गुणित उत्तरोत्तरो राशिर्भवति, यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गलक्षाणि एकाशीर्षप्रहेलिका, एतावान् ाशिर्गणितविषयोऽत ऊर्ध्वं गणनातीतः, सचपल्योपमादि, 'पलिओवमे सागरोवमे' अनयोः स्वरूपंसङ्ग्रहणीटीकायामुक्तं, आलापकास्तु स्वयं वक्तव्याः, अवसर्पिण्युत्सर्पिणीविषयमालापकं साक्षादाह[12]7 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy