SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ 'ता जयाण'मित्यादि, तत्र यदा जम्बद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्धऽवसर्पिणी प्रतिपद्यते-परिपूर्णाभवति तदा उत्तरार्द्धऽपिअवसर्पिणी प्रतिपद्यते, यदाउत्तरार्द्ध अवसर्पिणी प्रतिपद्यते-परिपूर्णा भवति, तदा दक्षिणार्धेऽपि अवसर्पिणी प्रतिपद्यते-प्रतिपूर्णा भवति, यदा उत्तरार्द्धऽपि अवसर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशिनैवास्त्यवसर्पिणीनाप्युत्सर्पिणी, कुत इत्याह-अवस्थितोणमितिखलु तत्र पूर्वस्यामपरस्यां चदिशिकालः प्रज्ञप्तो मया शेषैश्च तीर्थकरैः है श्रमणायुष्मन्! ततस्तत्रावसर्पिण्युत्सपिण्यभावः ___‘एवमुस्सप्पिणीवित्ति, एवमुक्तेन प्रकारेणोत्सपिण्यपि-उत्सर्पिण्यालापकोऽपि वक्तव्यः, स चैवम्-'ता जया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवज्जइ तया णं उत्तरद्धेविपढमा उस्सप्पिणी पडिवज्जइ, जयाणं उत्तरद्धेविपढमाओसप्पिणी पडिवज्जइतयाणं जंबुद्दीवे दीवेमंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणंनेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पनत्ते समणाउसो !' तदेवं जंबूद्वीपवक्तव्यतोक्ता, सम्प्रति लवणसमुद्रवक्तव्यतामाह - ‘लवणेणं समुद्दे' इत्यादि, तहेव'त्ति यथा जम्बूद्वीपे उद्गमविषये आलापक उक्तः तथा लवणसमुद्रेऽपिवक्तव्यः,स चैवम्-'लवणेणंसूरियाउईणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छंति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छंति, पाईणुईणमुग्गच्छ उईणपाईणमागच्छंति' इदंच सूत्रं जम्बूद्वीपगतोदगमसूत्रवत् स्वयं परिभावनीयं, नवरमत्रसूर्याश्चत्वारोवेदितव्याः, चत्तारिय सागरेलवणे' इति वचनात्, तेचजम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तद्यथा-द्वौ सूर्यौ एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेणया प्रतिबद्धौ द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदैकः सूर्यो जम्बूद्वीपे दक्षिणपूर्वस्यामुदगच्छति तदा तत्समश्रेण्या प्रतिबद्धौद्वौ सूर्यौ लवणसमुद्रेतस्यामेव दक्षिणपूर्वस्यामुदयमागच्छतस्तदैवजम्बूद्वीपगतेन सूर्येण सह तत्समश्रेण्याप्रतिबद्धौ द्वावपरौलवणसमुद्रेअपरोत्तरस्यां दिशिउदयमासादयतः, तत उदयविधिरपिद्वयोर्द्वयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, तथा चाह____ “ता जया ण'मित्यादि सुगम, नवरं 'जहा जंबुद्दीवे दीवे'इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपञ्चच्छिमेणंराई भवइ'इत्यादिकंसूत्रमुक्तं यावदुत्सर्पिण्यवसर्पिण्यालापस्तथालवणसमुद्रेऽप्यनातिरिक्तं समस्तं भणितव्यं, नवरं जम्बूद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः । तदेवं लवणसमुद्रगताऽपि वक्तव्यतोक्ता, सम्प्रति धातकीखण्डविषयां तामाह- 'धायइसंडेणंसूरिया'इत्यादि, अत्राप्युदगमविधिप्राग्वद् नवरमत्र सूर्याद्वादश, 'धायइसंडे दीवे वारस चंदाय सूराय' इति वचनात्, ततः पटसूर्या दक्षिणदिकचारिभिरजम्बूद्वीप-गतलवणसमुद्रगतैः सूर्यं सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः, सम्प्रत्यत्रापि क्षेत्रविभागेन दिवसरात्रिविभागमाह-'ता जयाण'मित्यादि, यदा धातकीखण्डे द्वीपे दक्षिणार्द्ध दिवसोभवित तदा उत्तरार्द्धऽपि दिवसो भवति, यदा उत्तरार्द्धऽपि दिवसस्तदा धातकीखण्डे मन्दरयोः पर्वतयोः पूवार्द्धपश्चिमार्द्धगतयोःप्रत्येकंपूर्वस्यामपरस्यांच दिशि रात्रिर्भवति, “एव'मित्यादि, एवमुक्तेन प्रकारेण यथा लवणेऽभिहितंतथैवाभिधातव्यं, नवरंकालोदे सूर्या द्विचत्वारिंशत्, तत्रैकविंशति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy