SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ८, प्राभृतप्राभृतं दक्षिणदिकचारिभिार्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या सम्बद्धा एकविंशतिरुत्तरदिक्चारिभिः, तत उदयविधिर्दिवसरात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः । साम्प्रतमभ्यन्तरपुष्कवरार्द्धवक्तव्यतामाह-'ताअभितरपुक्खरद्धे' इत्यादि, इदमपिसूत्रं सुगम, तहेव'त्तितथैव जम्बूद्वीप इववक्तव्यं, नवरमत्र सूर्या द्वासप्तति, तत्रषटत्रिंशद्दक्षिणदिक चारिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिबद्धाः षटत्रिंशदुत्तरदिकचारिभि, तत उदयविधिर्दिवस रात्रिविभागश्च क्षेत्रविभागेन प्राग्ववसेयः, तथा चाह-'ता जयाण मित्यादि, सुगमम् ॥ प्राभृतं-८ समाप्तम् (प्राभृतं-९) वृ.तदेवमुक्तमष्टमंप्राभृतं, सम्प्रतिनवममारभ्यते-तस्य चायमाधिकारः-'कतिकाष्ठा पौरुषीच्छायेति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४०) ता कतिकट्ठ ते सूरिए पोरीसीच्छायं निव्वत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिन्नि पडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसु-जेणं पोग्गला सूरियस्सलेसं फुसंति तेणं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदनंतराइं बायराइं पोग्गलाइं संतावेंतीति एसणं से समिते तावक्खेत्ते एगे एवमाहंसु। एगे पुण एवमाहंसु-ताजेणं पोग्गला सूरियस्स लेसंफुसंति तेणं पोग्गला नो संतप्पंति, तेणं पोग्गला असंतप्पमाणा तदनंतराइं बाहिराइं पोग्गलाई नो संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एव०२ । एगे पुण एव० ताजेणं पोग्गला सूरियस्स लेसं फुसंति तेणं पोग्गला अत्थेगतिया नो संतप्पंति अत्थे० संतप्पंति, तत्थ अत्थेग० संतप्पमाणा तदनंतराइं बाहिराई पोग्गलाई अत्थेग० संतावेति अत्थेग० नो संतावेति, एसणंसेसमितेतावखेते, एगेएव०३। वयं पुण एवं वदामो, ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता (उच्छूढा) अभिनिसट्ठाओ पतावेति, पताति, एतासिणं लेसाणं अंतरेसु अन्नतरीओ छिन्नलेसाओ संमुच्छंति, तते णं ताओ छिन्नलेस्साओ संमुच्छियाओ समाणीओ तदनंतराइं बाहिराइंपोग्गलाई संतावेंतीति एसणं से समिते तावक्खेते॥ वृ. 'ता कइकट्ठते'इत्यादि पूर्ववत् ‘कति' किंप्रमाणा काष्ठा-प्रकर्षो यस्याः सा कतिकाष्ठा तां कतिकाष्ठां-किंप्रमाणां? 'ते' तव मते सूर्य 'पौरुषी' पुरुषे भवा पौरुषी तां पौरुषी छायां निर्वर्त्तयति, निवर्तयन्नाख्यात इति वदेत् ?, किंप्रमाणां पौरुषीछायामुत्पादयन् सूर्यो भगवान् त्वया आख्यात इति वदेदिति सक्षेपार्थः, एवं प्रश्ने कृते भगवानेतद्विषये वावन्त्यः प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे'-तस्याः पौरुष्याः छायायाः प्रमाणचिन्तायां मध्ये एके। प्रथमा एवमाहुः– 'ताजेण मित्यादि, ता इतिपूर्ववत्, ये णमिति वाक्यालङ्कारे पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यलेश्यसंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, सन्तप्यन्त इति कर्मकर्तरि प्रयोगः, तेचपुद्गलाः सन्तप्यमानाः तदनन्तरान्-तेषांसन्तप्यमानानांपुद्गलानामव्यवधानेन ये स्थिताः पुद्गलास्ते तदनन्तरास्तान् बाह्यान् पुद्गलान्, सूत्रेच नपुंसकनिर्देशः प्राकृतत्वात्, सन्तापयन्ति, इतिशब्दः प्रस्तुतवक्तव्यतापरिसमाप्तिसूचकः, “एस णमित्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy