SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रामृतं ८, प्राभृतप्राभृतंद्वादशमुहूर्ता रात्रिभवति (तदा दक्षिणार्धे द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहर्ता रात्रि, तदा चाटादशमुहूर्तानन्तरादिदिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चत्थिमे णं'ति पूर्वस्यां पश्चिमायांच दिशि नैवास्त्येतत् यदुत पञ्चद शमुहूर्तो दिवसो भवति, ताप्यस्येतत्यथा-- पञ्चदशमुहूर्ता रात्रिर्भवतीति, कुत इत्याह-'वोच्छिन्नान'मित्यादि, व्यवच्छिन्नानिणमिति वाक्यालंकारे खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशि रात्रिन्दिवानि प्रज्ञप्तानि, हे श्रमण हे आयुष्मन् !, अत्रैवोपसंहारः ‘एगे एवमाहंसु ३' । एताश्च तिम्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात्, अपिच-ये तृतीया वादिनः सदैव रात्रिं द्वादशमुहूर्तप्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एव हीनाधिकरूपाया रात्रेरुपलभ्यमानत्वात्। सम्प्रति स्वमतंभगवानुपदर्शयति-'वयं पुण'इत्यादि, वयंपुनरेवं-वक्ष्यमाणेन प्रकारेण वदासः, तमेव प्रकारमाह-'ता जंबुद्दीवे दीवे' इत्यादि, 'ता' इति पूर्ववत् जम्बूद्वीपे २ सूर्यो यथायोगंमण्डलपरिभ्रम्या भ्रमन्तौ मेरोरुदकप्राच्यां-उत्तरपूर्वस्यां दिशिउद्गच्छतः, तत्र चोद्गत्य प्राग्दक्षिणस्यां-दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्रारदक्षिणस्यां-दक्षिणपूर्वस्यामुद्गत्य दक्षिणापाच्यां-दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्यामपरविदेहक्षेत्रापेक्षया उद्गत्यापागुदीच्यां-अपरोत्तरस्यामागच्छतः, तत्रापिचापरोत्तरस्यामैरावतादिक्षेत्रापेक्षया उद्गत्य उदकप्राच्यां-उत्तरपूर्वस्यामागच्छतः, एवं तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरयं-यदैकः सूर्यपूर्वदक्षिणस्यामुदगच्छति तदाअपरोऽपरोत्तरस्यां दिशि समुदगच्छति, दक्षिणपूर्वोद्गतश्च सूर्यो भरतादीनि क्षेत्राणि मेरूदक्षिणदिग्वीति मण्डलभ्रम्या परिभ्रमन्प्रकाशयति, अपरोऽपरोत्तरस्यामुद्गतः सन्तत ऊर्ध्वं मण्डलपरिभ्रम्या परिभ्रमन् ऐरावतादीनिक्षेत्राणि मेरोरुत्तरदिग्भावीनिप्रकाशयति, भारतश्चसूर्यो दक्षिणापरस्यामागतः सन्नपरविदेहक्षेत्रापेक्षया उदयमासादयति, ऐरावतः सूर्य पुनरुत्तरपूर्वस्यामागतः पूर्वविदेहापेक्षया समुदगच्छति, ततो दक्षिणापरस्यामुदगतःसन्तत ऊर्ध्वंमण्डलभ्रम्या परिभ्रमन् अपरविदेहान् प्रकाशयति, उत्तरपूर्वस्यामुद्गतस्तु तत ऊर्ध्व मण्डलगत्या चरन् पूर्वविदेहानवबासयति, तत एष पूर्वविदेहप्रकाशको भूयो दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामिति । तदेवं जम्बूद्वीपे सूर्ययोरुदयविधिरुक्तः, । सम्प्रतिक्षेत्रविभागेन दिवसरात्रिविभागमाह-'ताजयाणं०' तत्र यदा णमितिवाक्यालङ्कारे जम्बूद्वीपे द्वीपे दक्षिणार्द्ध दिवसो भवति तदा उत्तरार्द्धऽपि एकस्य सूर्यस्य दक्षिणदिशि परिभ्रमणसम्भवे अपरस्य सूर्यस्यावश्य- मुत्तरदिशि परिभ्रमणसंभवात्, यदा चोत्तरार्धेऽपि दिवसस्तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चस्थिमे णंति पूर्वस्यां पश्चिमायां च दिशि रात्रिभवति, तदानीमेकस्यापि सूर्यस्य तत्राभावात् ‘ता जया णं०' तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दिवसो भवति तदा पश्चिमायामपि दिशि दिवसो भवति, एकस्य सूर्यस्य पूर्वदिग्भावसम्भवे अपरस्य सूर्यस्यावश्यमपरस्यां दिशि भावात्, एतच्च प्रागेव भावितं, यदाच पश्चिमायामपि दिशि दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ‘उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च रात्रिर्भवति, ‘ता जयाणं०'तत्र यदा णमिति प्राग्वत्, जम्बूद्वीपे द्वीपे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy