________________
९०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ७/-/ ३८
प्राभृतं -७
वृ. तदेवमुक्तं षष्ठं प्राभृतं, सम्प्रति सप्तमं आरभ्यते, तस्य चायमर्थाधिकारः 'कस्तव मतेन भगवन् ! सूर्यं वरयती' ति, तत एतद्विषयं प्रश्नसूत्रमाह
मू. (३८) ता के ते सूरियं वरंति आहिताति वदेज्जा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु-ता मंदरे णं पव्वते सूरियं वरयति आहितेति वदेज्जा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता मेरू णं पव्वते सूरियं वरति आहितेति वदेज्जा ।
एवं एएणं अभिलावेणं नेतव्वं जाव पव्वतराये णं पव्वते सूरियं वरयति आहितेति वदेज्जा, तं एगे एवमाहंसु । वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति तहेव जाव पव्वतराएवु पवुच्चति, ता जेणं पोग्गला सूरियस्स लेसं फुसति ते पोग्गला सूरियं वरयंति, अदिट्ठावि णं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वरयति ॥
वृ. 'ता के ते' इत्यादि, ता इति पूर्ववत्, कस्तव मतेन भगवन् ! सूर्यं वरयति ?, वरयन् 'वर ईप्सायां ' आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन्, आख्यात इति वदेत्, एवमुक्ते भगवान् एतद्विषया यावत्यः परतीर्थिकानां प्रतिपत्तयः तावतीः कथयति - 'तत्थे' त्यादि, तत्र सूर्यं प्रति वरणविषये खल्विमा विंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा - तत्र तेषां विंशतेः परतीर्थिकानां मध्ये एके प्रथमा एवमाहुः - मन्दरः पर्वतः सूर्यं वरयति, मन्दरः पर्वतो हि सूर्येण मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते, ततः सूर्यं प्रकाशकत्वेन वरयतीत्युच्यते, अत्रोपसंहारः- एगे० ' १, एके पुनरेवमाहुः, मेरुपर्वतः सूर्यं वरयन्नाख्यात इति वदेत्, अत्राप्युपसंहारः 'एगे ०२ ।
'एव' मित्यादि, एवं - उक्तेन प्रकारेण लेश्याप्रतिहतिविषयविप्रतिपत्तिवत् तावन्नेतव्यं यावत्पर्वतराजः पर्वतः सूर्यं वरयन् आख्यात इति वदेत्, एके एवमाहुरिति, किमुक्तं भति ? - यथा प्राक् लेश्याप्रतिहतिविषये विंशति प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपि प्रथमप्रतिपत्तिगतपाठानुसारेणान्यूनातिरिक्तः स्वयं परिभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति
'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता मंदरेSवी त्यादि, ता इति पूर्ववत्, योऽसौ पर्वतः सूर्यं वरयन् आख्यातः स मन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भावितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपि च- न केवलो मेरुरेव सूर्यं वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाह- 'ता जे ण', ता इति पूर्ववत् पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यां स्पृशन्ति ते पुद्गलाः स्वप्रकाशकत्वेन सूर्यं वरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेश्यापुद्गलैः सह सम्बन्धात्परंपरया ते - सूर्यं स्वं कुर्वन्तीत्युच्यते, ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुगता अमेरुगता वा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुस्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्यं वरयन्ति येऽपिच चरमलेश्यान्तरगताः - स्वचरमलेश्याविशेषस्पर्शिनः पुद्गलास्ते ऽपि सूर्यं वरयन्ति तेषामपि सूर्येण प्रकाश्यमानत्वात् ॥
प्राभृतं -७ समाप्तम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org