________________
प्राभृतं ६, प्राभृतप्राभृतं इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, ‘ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि, ततः सर्वाभ्यन्तरान्मण्डलादुक्तप्रकारेण निष्क्रामन् सूर्योनवंसंवत्सरमाददानोनवस्यसंवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्नरानन्तरंद्वितीयमण्डलमुपसंक्रम्य चारं चरति । “ता जयाण मित्यादि, तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्ध्व शनैः शनैः कलामात्रकलामात्र-हापनेनाहोरात्रपर्यन्तेएकंभागमोजसः-प्रकाशस्य दिवसक्षेत्रगतस्य निर्वेष्टय-हापयित्वा तमेव चैकं भागं रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, कियप्रमाणं पुनर्भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनिक्षेत्रस्य वर्द्धयित्वा ?
ततआह-मण्डलमष्टादशभिस्त्रिंशैः-त्रिंशदधिकैःशतैश्छित्त्वा, किमुक्तंभवति? -द्वितीयं मण्डलमष्टादशभिस्त्रशदधिकैर्भागशतैर्विभज्य तत्सत्कमेकंभागमिति, कस्मात्पुनर्मण्डलस्याष्टादश शतानि त्रिंशदधिकानि भागानां परिकल्प्यन्ते?, उच्यते, इह एकैकं मण्डलं द्वाभ्यां सूर्याभ्यां एकेनाहोरात्रेण भ्रम्यापूर्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, प्रतिसूर्यं चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोःषष्टिर्मुहून्ताः, ततो मण्डलं प्रथमतः षष्टयभागैर्विभज्यते, निष्क्रमन्तौ च सूर्यौप्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्तेकषष्टिभागौ हापयतः प्रविशन्तौ चाभिवर्द्धयतः, यौ च द्वौ मुहूर्तेकषष्टिभागौ तौसमदितावेकः सार्द्धत्रिंशत्तमोभागः, ततः षष्टिरपि भागाःसार्द्धया त्रिंशता गुण्यन्ते, जातान्यष्टादशशतानि त्रिंशताऽधिकानिचभागानां, एवं निष्क्रमन्सूर्य प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसङ्ख्यानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनिक्षेत्रस्याभिवर्द्धयन् तावद्वक्तव्यः यावत्सर्वबाह्ये मण्डले त्र्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता रजनिक्षेत्रस्यचाभिवर्द्धयिता भवति, त्र्यशीत्यधिकंच भागशतमष्टादशशतानां त्रिंशदधिकानां दशमो भागः।
ततः ‘सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्ये मण्डले जम्बूद्वीपचक्रवालदशभागस्त्रुटयति रजनिक्षेत्रस्याभिवर्द्धते' इति ययागभिहितं तदपि समीचीनं जातमिति, एवमभ्यन्तरं प्रविशन् प्रतिमण्डलमष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकैकं भागमभिवर्द्धयन तावद्वक्तव्यो यावत्सर्वाभ्यन्तरेमण्डले त्र्यशीत्यधिकंभागशतंदिवसक्षेत्रगतस्य प्रकाशस्याभिवर्द्धयति रजनिक्षेत्रगतस्य च हापयति, त्र्यशीत्यधिकं च भागशतं जम्बूद्वीपचक्रवालस्य दशमो भागस्ततः सर्ववाह्यान्मण्डलात्सर्वाभ्यन्तरेमण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवद्धते रजनिक्षेत्रगतस्य तु त्रुटयतीति ययागवादि तदविरोधीति, सूत्रं तु
'तया णं अट्ठारसमुहुत्ते दिवसे' इत्यादिकं सकलमपि प्राभृतपरिसमाप्तिं यावत्सुगम, नवरमेवमत्रोपसंहारः-यत् एवं सूर्यचारस्ततः प्रतिसूर्यसंवत्सरं सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं २ मुहूर्तान् यावत्परिपूर्णमवस्थितमोजस्ततः परमनवस्थितं, सर्वाभ्यन्तरेऽपिच मण्डले त्रिंशतं मुहूर्तान् यावत्परिपूर्णमवस्थितमोज उच्यते व्यवहारतो निश्चयतः पुनस्तत्रापि प्रथमक्षणादूर्ध्व शनैः शनैर्दीयमानमवसेयं, प्रथमक्षणादूर्ध्वंसूर्यस्य सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं चारचरणादिति ॥
प्राभृतं-६ समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org