SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ५, प्राभृतप्राभृतं - ८५ पाण्डुकम्बलशिलाप्रभृतीनामुत्-ऊर्ध्व शिरस उपरिचयः-सम्भवो यत्र स शिलोच्चयः ८, तथा लोकस्य-तिर्यग्लोकस्य समस्तस्यापि मध्ये वरत्तते इति लोकमध्यः ९, तथालोकस्य-तिर्यग्लोकस्य स्थालप्रख्यस्य नाभिरिव-स्थालमध्यगतसमुन्नतवृत्तचन्द्रक इव लोकनाभि १० । तथा अच्छ:-स्वच्छः सुनिर्मलजाम्बूनदरत्नबहुलत्वात् ११, तथा सूर्य उपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाश्च प्रदक्षिणमावर्तन्ते यस्य स सूर्यावत्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च समन्ततः परिभ्रमणशीलैराव्रियते स्म-वेष्टयते स्मेति सूर्यावरणः ‘कृद्धहुल मिति वचनात्कर्मण्यनषप्रत्ययः १३, तथा गिरीणामुत्तम इतिउत्तमः १४,दिशामादि-प्रभवोदिगादि, तथाहि-रुचकादिशां विदिशांच प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपिदिगादिरित्यच्यते १५, तथा गिरीणामवतंसक इवेत्यवतंसकः १६ । अमीषां च षोडशानां नाम्नां सङ्गाहिके इमे जम्बूद्वीपप्रज्ञप्तिप्रसिद्ध गाथे॥१॥ “मंदरमेरुमणोरम सुदंसण सयंपभे य गिरिराया। रयणोच्चए सिलोच्चय मज्झो लोगस्स नाभी य ।। ॥२॥ ____ अच्छे य सूरियावत्ते, सूरियावरणे इय। उत्तमे य दिसाई य, वडिंसे इय सोलसे॥ तथाधरण्याः-पृथिव्याः कीलक इवधरणिकीलकः, तथा धरण्याः श्रृङ्गमिवधरणिशृङ्गः, पर्वतानामिन्द्रः पर्वतेन्द्रः, पर्वतानां राजा पर्वतराजः, तदेवं सर्वेऽपिमन्दरादयः शब्दाः परमार्थत एकार्थिकास्ततोभिन्नाभिप्रायतया प्रवृत्ताः प्राक्तनाः प्रतिपत्तयः सर्वाअपिमिथ्यारूपाअवगन्तव्याः यापि च लेश्याप्रतिहति सा मन्दरेऽप्यस्ति अन्यत्रापि च, तथा चाह-- 'ताजेणं'इत्यादि, ता इति पूर्ववत्येणमिति वाक्यालङ्कारे पुद्गा मेरुतटभित्तिसंस्थिताः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यस्य लेश्यांप्रतिघ्नन्ति, अभ्यन्तरंप्रविशन्त्याः सूर्यलेश्यायास्तैःप्रतिस्खलितत्वात्, येऽपि पुद्गला मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुद्गलान्तर्गताः सूक्ष्मत्वान् चक्षुस्पर्शमुपयान्ति तेऽप्यदृष्टा अपि सूर्यलेश्यां प्रतिघ्नन्ति, तैरप्यभ्यन्तरंप्रविशन्त्याः सूर्यलेश्यायाः स्वशक्त्यनुरूपंप्रतिस्खल्यमानत्वात्, येऽपि मेरोरन्यत्रापि चरमलेश्यान्तरगताः-चरमलेश्या-विशेषसंस्पर्शिनः पुद्गलास्तेऽपि सूर्यलेश् प्रतिघ्नन्ति, तैरपि चरमलेश्यासंस्पर्शितया चरमलेश्यायाः प्रतिहन्यमानत्वात् ।। प्राभृतं-५ समाप्तम् (प्राभृतं-६) तदेवमुक्तं पञ्चमं प्राभृतं, सम्प्रति पष्ठमारभ्यते, तस्य चायमर्थाधिकारः-'कथमोजःसंस्थितिराख्याता'इति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३७) ता कहं ते ओयसंठिती आहितातिवदेजा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु ता अणुसमयमेव सूरियस्स ओया अन्ना उप्पजे, अन्ना अवेति, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरियस्स ओया अन्ना उप्पजति अन्ना अवेति २। एतेणं अभिलावेणं नेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy