SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ३/-/३४ ओभासंति, (४), एगे, एवमाहंसु ११, एगे पुण एवमाहंसु ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंति (४) एगे एवमाहंसु १२। वयं पुण एवं वदामो-अयण्णंजंबुद्दीवे सव्वद्दीवसमुद्दाणंजाव परिक्खेवेणं पन्नते, सेणं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, साणं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणंजंबुद्दीवे २ चोद्दस सलिलासयसहस्सा छप्पन्नं च सिललासहस्सा भवन्तीति मक्खाता, जंबुद्दीवेणंदीवे पंचचक्कभागसंठिता आहितातिवदेजा, ताकहंजंबुद्दीवे २ पंचक्कभागसंठिते आहिताति वदेज्जा, ता जता णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स २ तिन्नि पंचचउक्कभागे ओभासंति उज्जोवेति तवंति पभासंति। तं०-एगेवि एगं दिवढे पंचचक्कभागं ओभासेति (४) एगेवि एवं दिवढं पंचचक्कभागं ओभासेति (४) तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, ता जताणं एते दुवे सूरिय सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तदाणं जंबुद्दीवस्सर दोन्निचक्कभागेओभासंति उज्जोवेति तवंति पगासंति, ताएगेविएगपंचचक्कवालभागं ओभासति जाव पभासइ, एगेवि एक्क पंचचक्कवाल भागं ओभासइ (४)। तताणं उत्तमकट्ठपत्ता उक्कसिया अट्ठारसमुहुत्ता राई जहन्नए दुवालसमुहूत्ते दिवसे भवइ वृ. 'ता केवइय'मित्यादि, ताइति पूर्ववत् कियत् क्षेत्रं चन्द्रसूर्या, बहुवचनं जम्बूद्वीपे चन्द्रद्वयस्य सूर्यद्वयस्य च भावात्, अवभासयन्ति, तत्रावभासो ज्ञानस्यापि प्रतिभासो व्यवह्रियते अतस्तदव्यवच्छेदार्थमाह-उद्योतयन्ति, स चोद्योतो यद्यपि लोके भेदेन प्रसिद्धो यथा सूर्यगत आतपइतिचन्द्रगतः प्रकाशइति, तथाप्यातपशब्दश्चन्द्रप्रभायामपिवर्तते, यदुक्तम्-“चन्द्रिका कौमुदी ज्योत्स्ना, तथ चन्द्रातपः स्मतः" इति, प्रकाशब्दः सूर्यप्रबायामपि, एतच्च प्रायो बहूनां सुप्रतीतं, तत एतदर्थप्रतिपत्यर्थमुभयसाधाणं भूयोऽप्येकार्थिकद्वयमाह-तापयन्तिप्रकाशयन्ति आख्याता इति, इहार्षत्वात्तिबाद्यन्तपदेनापि सह नामपदस्य समन्वयोभवति, तत एवमर्थयोजना द्रष्टव्या-कियत् क्षेत्रं चन्द्रसूर्या अवभासयन्ति उद्योतयन्तस्तापयन्तः परकाशयन्त आख्याता भगवेति भगवान् वदेत् ?, एवं गौतमेनोक्ते भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति 'तत्थे' त्यादि, तत्र-चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयःपरतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा-'तत्थे'त्यादि, तत्र-तस्यां द्वादशानां परतीथिकानां मध्ये एके-प्रहथममास्तीर्थान्तरीया एवमाहुः, एकं द्वीपं एकं समुद्रं चन्द्रसूर्यौ अवभासयन्तौ उद्योतयन्तौ तापयन्तौ प्रकाशयन्तौ, सूत्रे द्वित्वेऽपि बहुवचनंप्राकृतत्वात्, उक्तं च-'बहुवयणेण दुवयण मिति, द्विचनंचात्रतात्विकमवसेयं, परतीर्थिकैरेकस्य चन्द्रमस एकस्यचसूर्यस्याभ्युपगमात्, सम्प्रति अस्यैव प्रथममतस्योपसंहारमाह-'एगे एवमाहंसु' एवं सर्वाण्यपि उपसंहारवाक्यानि भावनीयानि १ एकेद्वितीयाः पुनरेवमाहुः-त्रीन्द्वीपान्त्रीन् समुद्रान्चन्द्रसूर्यौ यावच्छब्दोपादानात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं, तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्तरत्रापि द्रष्टव्यं,२। एके पुनस्तृतीया एवमाहुः-'अद्धचउत्थे' इति अर्द्ध चतुर्थं येषां ते अर्द्धचतुर्था, त्रयः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy