________________
प्राभृतं ३, प्राभृतप्राभृतं
७१ परिपूर्णाश्चतुर्थस्यचार्द्धमित्यर्थः, अर्द्धचतुर्थान् द्वीपान् अर्धचतुर्थान् समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्था पुनरेवमाहुः-सप्त द्वीपान सप्त समुद्रान् चन्द्रसूर्याववभासयतः४
एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ४ ।
एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ५, एके पुनः षष्टा एवमभिदधति-द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः सप्तमा एवं भाषन्ते-द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहुः-द्वासप्ततिं द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्याववभासयतः ८ ।
एके पुनर्नवमा एवमाहुः-द्विचत्वारिंशं-द्वाचत्वारिंशदधिकंद्वीपशतं द्वाचत्वारिंशदधिकं समुद्रशतं चन्द्रसूर्यववभासयतः ९, एके पुनर्दशमा एवंजल्पन्ति-द्वासप्ततं-द्वासप्तत्यधिकं द्वीपशतं द्वासप्तत्यधिकं समुद्रशतंचन्द्रसूर्याववभासयतः १०, एके एकादशाः पुनरेवमाहुः-द्वाचत्वारिंशंद्वाचत्वारिंशदधिकं द्वीपसहनं द्वाचत्वारिंशदधिकं समुद्रसहनं चन्द्रसूर्याववभासयतः ११, एके द्वादशाः पुनरेवमाहुः-द्वासप्ततं-द्वासप्तत्यधिकं द्वीपसहन द्वासप्तत्यधिकं समुद्रसहनं चन्द्रसूर्याववभासयतः १२। एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपास्तथा च भगवानेता व्युदस्य स्वमतं भिन्नमेव कथयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलचक्षुषः केवलचक्षुषा यथावस्थितं जगदुपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता अयन'मित्यादि, अत्र 'जहा जंबुद्दीवपन्न-त्तीए'त्तियथाजम्बूद्वीपप्रज्ञप्तौ अयण्णंजंबुद्दीवेइत्यारभ्ययावत्एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलसयसहस्साइंछप्पनं च सलिलासहस्सा भवंतीति मक्खाय' मियुक्तं, तथा एतावदग्रन्थसहनचतुष्टयप्रमाणमत्रापि वक्तव्यं परं ग्रन्थगौवभयान लिख्यते, केवलं जम्बूद्वीपप्रज्ञप्तिपुस्तकमेव निरीक्षणीयमिति, अयमेवंरूपो जम्बूद्वीपः पञ्चभिः पञ्चसङ्खयोपेतैश्चक्रभागः-चक्रवालभागैः संस्थित आख्यातोमया इति वदेत्स्वशिष्याणांपुरतः, एवमुक्तेभगवान् गौतमः स्वशिष्याणां स्पष्टावबोधार्थं भूयः पृच्छति- 'ता कह'मित्यादि, ता इदि पूर्ववत्, कथं भगवान् ! त्वया जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत्, भगवानाह-'ता जया न मित्यादि, ता इति पूर्ववत्, यदा णमिति वाक्यालङ्कारे, एतौ प्रवचनवेदिनांप्रसिद्धौद्वौ सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरतः तदा तौ समुदितौ द्वावपि सूर्यौ जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चक्रवालभागान् अवभासयत उद्योतयतस्तापयतः प्रकाशयतः, कथंप्रकाशियत इति परप्रश्नावकाशमाशङ्कय एतदेव विभागत आह-‘एगोऽवी' त्यादि, एकोऽपिसूर्योजम्बूद्वीपस्य द्वीपस्य एकंपञ्चचक्रवालभागं-पञ्चमंचक्रवालभागं व्यर्द्धमिति-द्वितीयमर्द्धयस्यसद्व्यद्ध, पूरणार्थोवृत्तावन्तभूतोयथा तृतीयोभागस्त्रिभाग इत्यर्थः,तं, अयंच भावार्थः-एकंपञ्चमंचक्रवालभागं द्वितीयस्य पञ्चमस्य चक्रवालभागस्यार्द्धन सहितं प्रकाशयति । तथा एकोऽपि-अपरोऽपि द्वितीयोऽपीत्यर्थ, एकं पञ्चमं चक्रवालभागं द्व्यर्द्ध प्रकाशय- तीत्युभयप्रकाशितभागमीलने परिपूर्णं भागत्रयं प्रकाश्यं भवति, इयमत्र भावना-जम्बूद्वीपगतंप्रकाश्यं चक्रवालं षष्टयधिकषटत्रिंशच्छतभागं कल्प्यते तस्य पञ्चमो भागो द्वात्रिंशद-धिकसप्तशतप्रमाणः साद्धः सन्अष्टानवत्यधिकसहस्रभागमानः ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्य षष्ट्यधिकषट्त्रिंशच्छतसङ्ख्यानां भागानामष्टानवत्यधिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org