________________
८८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ प्राप्ततारूपायांसातिरेकाणि पञ्चाशीति २ योजनानि अभिवर्द्धयन् २, इदं च सर्ववाह्यान्मण्डलादक्तिनानि कतिपयानिप्रथमद्वितीयादिमण्डलान्यपेक्ष्यस्थूलत उक्तं, परमार्थतः पुनरेवंद्रष्टव्यं-इह येनैवक्रमेण सर्वाभ्यन्तरान्मण्डलात्परतोदृष्टिपथप्राप्ततांहापयन्विनिर्गतस्तेनैवक्रमेणसर्ववाह्यान्मण्डलादक्तिनेषु मण्डलेषु दृष्टिपथप्राप्ततामभिवर्द्धयन्प्रविशति, तत्र सरबबाह्यमण्डलाक्तिन द्वितीयमण्डलगतात्, दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्यमण्डले पञ्चाशीतिर्योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कान् षष्टिभागान् हापयति, एतच्प्रगेवभावितं, ततस्तस्मात्सर्ववाह्यान्मण्डलादाक्तनेद्वितीयेमण्डले प्रविशन्तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति ध्रुवं, ततोऽक्तिनेषु मण्डलेषु यस्मिन् २ मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तृतीयमण्डलादारभ्तत्तन्मण्डलसङ्ख्ययांषटत्रिंशद् गुण्यते
. तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यामेवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायां द्वयशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशिनासहितंपूर्वपूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणंतत्र २ मण्डले द्रष्टव्यं, तद्यथातृतीये मण्डले षट्त्रिंशत् एकेन गुण्यते, एकेन च गुणितं तदेव अवतीति जाता षट्त्रिंशदेव, सा ध्रुवराशेरपनीयते, जातं शेषमिदंपञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्का एकषष्टिभागाश्चतुर्विंशति, । एतेन सहितं पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं एकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य दृष्टिभागस्य सत्काः षष्टिरेक-पष्टिभागाः। एत्येवंरूपं क्रियते, ततोऽधिकृते तृतीयेमण्डले यथोक्तं दृष्टिपथ० भवति, तच्च प्रागेवोपदर्शितं, चतुर्थेमण्डलेषटत्रिंशद् द्वाभ्यांगुण्यते, गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टपथ० भवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टापञ्चाशच्च पष्टिभाग योजनस्य एकस्य च षष्टिभागस्य सत्का एकादशैक षष्टिभागाः । एवं शेषेष्वपिमण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षटत्रिंशद् द्वयशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्यद्व्यशीत्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि तेषामेकषष्ट्या भागे हृते लब्धं सप्तोत्तरंशतं षष्टिभागानां, सेषं पञ्चविंशतिः। एतत्पञ्चाशीतिर्योजनानि नवषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः एत्येवंरूपात् ध्रुवराशेः शोध्यते, जातानिपश्चात् त्र्यशीतिर्योजनानि द्वाविंशति षष्टिभागा योजनस्य एकस्य पप्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः, इह षटत्रिंशत् २ एकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते एतच्च प्रागेवोक्तं
तच्च कलान्यूनत्वं प्रतिमण्डलं भवत् यदा द्व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्ते, ततो जातमिदं-- त्र्यशीतर्योजनानि त्रयोविंशतिषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकपटिभागाः एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणिशतमेकमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत्पष्टिभागा योजनस्य एकस्यषटिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः इत्येवंरूपं सहितं क्रयते, ततो यथोक्तं सर्वाभ्यन्तरे मण्डले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org